SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३५४ काव्यमाला | विमुक्तभीमकरया वामत्वाशरमालया । आलिङ्गयमान सर्वाङ्गो मुमोहाङ्गपतिस्ततः ॥ १६१ ॥ ते चित्रार्युधचित्राश्वचित्रसेनविकर्णकाः । शत्रुः शत्रुंजयः शत्रुं सहश्चेति सुतास्तव ॥ १६२ ॥ आर्कित्राणाय धावन्तो हता भीमेन तद्बभौ सप्तगोदावर इव श्री भीमस्तदसृग्रयैः ॥ १६३ ॥ ( युग्मम् ) ततो मूर्च्छान्तविक्रान्तः कर्णः स्वर्णमयैः शरैः । भीमं चक्रे दवार्चिष्मत्की लालीढद्रुमोपमम् ॥ १६४ ॥ [पार्थस्य विरथस्यास्य सर्वाण्यस्त्राणि धावतः । कर्णश्चिच्छेद पत्राणि तपस्य इव शाखिनः ॥ १६५ ॥] क्षीणायुधो हरिकरित्रातान्वातात्मजोऽक्षिपत् । वैकर्तनश्चकर्तेषुसंतानैर्मङ्खु तानपि ॥ १६६ ॥ [ स्मरन्कुन्तीगिरां भीममनिघ्नन्भानुभूस्तदा । लीनं मृतेभकूटेषु धनुष्कोट्या स्पृशञ्जगौ ॥ १६७ ॥ ] महद्भिर्न रणं कार्यमकृतास्त्र पुनस्त्वया । स्थूलमूर्तेर्बहुभुजः सूदतैव तवोचिता ॥ १६८ ॥ इत्युक्तया शल्ययन्भीमं दर्शितो दनुजद्विषा । अत्रास दूरादुद्दण्डैः काण्डैः कर्णः किरीटिना । १६९ ॥ आरूढोऽथ विपत्त्यक्तः सुतप्तः सात्यके रथम् । भीमः प्रावृविमुक्तोऽर्क इव पूर्वगिरेः शिरः ॥ १७० ॥ भीमसेनप्रवेशः । नरेण नाराचमुदञ्चितं तदा पतङ्गभूसंमुखमद्भुतप्रभम् । अखण्डयन्द्रौणिपतत्रिपतयस्तदुन्मुखं दावमिवान्दवृष्टयः ॥ १७१ ॥ १. 'वामत्वाशममालया' क. २. 'आलिङ्गयमानः सर्वाङ्गः ' ख; 'सर्वाङ्ग' ग. ३. 'युधि चित्रास्त्रचित्रसेवककर्णकाः ' ख. ४. 'दृढ' ग. ५. 'कर्ण' ख-ग. ६-७. क पुस्तके त्रुटितः. ८. 'स्तव' ग. ९. 'सूदनैव ततोचिता' क. १०. ' इत्युक्वा' क- ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy