SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ३ वनपर्व -२ सर्गः ] बालभारतम् । जानन्तु मुग्वहृदया इति किं नु वेद्मि तादृक्तपोधनतपः प्रभवं प्रभावम् ॥ १७ ॥ बहुकासारः सारः सारस्वतवारिभिर्महानेषः । निजकान्तारं तारं तारं वहति व्रजं मरुताम् ॥ १८ ॥ उत्तीर्य तूर्णतरमङ्कतटात्तटिन्यः पेतुः सुता इव गिरेरिह पादपीठे | तल्लब्धरत्नचयभूषणभारभाजो गच्छन्ति विस्तृतरसादपि तं पयोधिम् ॥ १९ ॥ विश्वकशत्रुशरणागतमन्धकारं संरक्ष्य भानुमति वीक्षणभाजि शैलः । भ्रान्त्वा दिनं गतवतीह गुहागृहान्त राकृष्य मुञ्चति निशि ज्वलितौषधीकः ॥ २० ॥ भात्येष मेरुरुचिरोsपि नमेरुशोभी कृत्स्नामिलामपि वहन्नेनिलाभिरामः । सव्यालबालमपि चन्दनपादपानां नैव्यालवालमभितो वहते समूहम् ॥ २१ ॥ वैनस्यान्तर्लसत्पत्ररतिभूतरुचारुणः । सुरौघः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥ २२ ॥ वन्येभप्रकरकराग्रभग्नवंश प्राग्भारप्रभवनवीन मौक्तिकोऽयम् | कान्तारप्रसवपरागपिङ्गमूर्तिनक्षत्रावलिवृतमेरुवद्विभाति ॥ २३ ॥ भित्त्वा भित्त्वा कुवलयदलश्यामभासः सशब्दानब्दानस्मिन्गुरुतर शिलासङ्गसंपीडिताङ्गः । - १८९ १. नमेरुभिर्वृक्षैः. २. अनिलेन वायुना ३. नव्यमालवालम्, इति विरोधपरिहार:; नञ्समासेन विरोधः ४. 'खेलत्यन्तर्वनस्यास्मिन्' ख ग. ५. 'श्रीसखो' ग; 'श्रीमुखो' ख. ६. 'स्तस्मिंस्तस्मिन्' ख ७. 'तरु' ख. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy