SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २ सभापर्व -२ सर्गः ] बालभारतम् । बद्धाः सिषिचुरक्षोटवृक्षालीं तद्विपा मदैः । अपकारिष्वपि व्यक्तं महतामुपकारिता ॥ २४ ॥ कृत्वाथ दक्षिणं क्षीणशौर्यं काम्बोजभूपतिम् । नृपान्पार्थो जिगायाथ प्रागुदीच्यां दिशि स्थितान् ॥ २९ ॥ ओजः परमकाम्बोजलोहद्रोहभवं भजन् । ' रिषीकेषु हृषीकेशविक्रमः स क्रमाद्ययौ ॥ २६ ॥ हरितः स हरीनष्ट प्राप्य तत्प्रभुढौकितान् । वेरप्यधिको रेजे तेजःक्रान्तजगत्रयः ॥ २७ ॥ एतद्दिग्जयसंजातं यशो जातमिवात्मनः । अथारुक्षतुषाराद्रिं शुभ्रमभ्रंकर्षं विभुः ॥ २८ ॥ एषां नास्योचितं गात्रमास्यं गात्रोचितं न वा । इत्यत्र विस्मितास्तस्य तुरगान्वीक्ष्य किंनराः ॥ २९ ॥ आसन्नोत्तरदिग्दन्तिमदगन्धोद्धुरकुधः । 'नीरदेषु रदाघातं तत्र तद्विरदा व्यधुः || २० || तत्र तद्रथचक्राध्वसमूहप्रवहत्पयाः । सहस्रमुखतां मन्ये तदादि धुनी दधौ ॥ ३१ ॥ तद्वीरा शौर्यसोष्माणो यत्र यत्र ददुः पदम् । तत्र तत्रावहत्स्वच्छ कीर्तिस्तेषां हिमच्छलात् ॥ ३२ ॥ चक्रे भूर्जस बिन्दुबन्धुरैः सिन्धुरैरधः । सोऽद्रिस्तदीयैर्दाना लिध्वनिधिकृतकिंनरैः ॥ ३३ ॥ भिया शैलाधिदेवस्य दिग्गजैरप्यलैम्भिताम् । तत्करिक्रीडया पीडां सेहिरे देवदारवः || ३४ || जित्वाथ निष्कुटं शैलं स क्रान्त्वा श्वेतपर्वतम् । देशे किंपुरुषावासे द्रुमपत्रं ततोऽजयत् ॥ ३९ ॥ १४१ १. ‘हृषीकेषु' ख. २. ‘दरदैः सह काम्बोजमजयत्पाकशासनिः' ग. ३. 'लम्भिताः' क. ४. 'जित्वा स' ख-ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy