SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४० काव्यमाला। कृत्वा कामं दिनान्यष्टौ कामरूपेश्वरो रणम् । धनंजये जयं पूर्व स ततो व्यतरद्धनम् ॥ १३ ॥ शर्वपर्वतखर्वत्वकरद्विपवरोऽथ सः । कुलूतपुरभूपालं बृहन्तं जितवान्युधा ॥ १४ ॥ रामदेवसुनामादिराजराजिजयोज्ज्वलः । सेनाबिन्दुं दिवप्रस्थपुरे सत्याभिधं व्यधात् ॥ १५ ॥ कृत्वा तु पौरवं ध्वस्तगौरवं पर्वतेश्वरम् । जिष्णुरुत्सवसंकेतांश्चक्रेऽनुत्सवकेतनान् ॥ १६ ॥ रागिण्यः स्मेरकाश्मीरैः श्लथीभूतपतिक्रियाः । काश्मीरभूमयः कामतप्तास्तमभजंस्ततः ॥ १७ ॥ अस्त्रैस्तेनारिनारीणां द्विरदानां मदाम्बुभिः । तत्र मधेर्मयोर्वथुसरितस्त्रिगुणीकृताः ॥ १८ ॥ अवीरीकृतकाश्मीरः शौर्यमोहितलोहितः । दशमण्डलदण्डोग्रस्त्रिगर्तभटकर्तनः ॥ १९ ॥ गतोऽयमिति वैरीभसिंहः सिंहपुरं पुरम् । युधि चित्रायुधं भूपं तत्र चित्रायुधं व्यधात् ॥ २० ॥ (युग्मम्) अथ चोलचलाक्षीणां चक्षुश्चञ्चलतां क्षिपन् । नव्यवैधव्यसंबन्धं कुर्वन्बाहीकयोषिताम् ॥ २१ ॥ सिक्तकीर्तिलतः शिष्टभ्रूणहूणीहगम्बुभिः । दरदोदरदीर्घोत्थनिश्वासोग्रमहः शिखी ।। २२ ॥ ययौ काम्बोजमोजस्वी रङ्गत्तुङ्गतुरङ्गमम् । लक्ष्मीलिप्सुरसौ निष्णुरुत्तरङ्गमिवार्णवम् ॥ २३ ॥ (विशेषकम्) - १. 'सर्व' ख. २.-'अप्यपौरुषम्' ख. ३. ' केतनात् ग, Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy