SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४२ काव्यमाला | तत्र गर्जगजालोकादस्थानाब्दभयोत्थितैः । यशोभिरर्जुनस्येव नभश्छन्नं सितच्छदैः ॥ ३६ ॥ सुवर्णसिकताखेलैः स्वर्णपद्मावतंसनैः । वीरास्तत्र बभुर्मूर्तदीप्ततेजोवृता इव ॥ ३७ ॥ से देशे हाटके कीर्ति सुभगं भावुकोद्यमः । प्रसह्य गुह्यकाञ्जित्वा सरो मानसमासदत् ॥ ३८ ॥ स्फटिकाद्र तटीबिम्बद्विगुणायितसैनिकः । ततोऽलकापुरीद्वारि स निवेशान्यवेशयत् ॥ ३९ ॥ तटीषु वर्णसादृश्याददृश्यदशनानिह । निजबिम्बान्वशाबुध्या तंत्र तद्दन्तिनोऽस्पृशन् ॥ ४० ॥ कर्णानिलोल्लसद्दानमपीबिन्दुनिवेशतः । तद्विपैरलकावप्रे तत्प्रशस्तिरलिख्यत ॥ ४१ ॥ यच्छन्धनान्यसंख्यानि तस्य स्वपुरभङ्गभीः । तदा धनद इत्याख्यां दधौ सत्यां धनाधिपः ॥ ४२ ॥ जित्वा गन्धर्वदेशं स गन्धर्वनगरेऽगृहीत् । हयांस्तित्तिरकल्माषान्मण्डूकाख्यान्विलोद्भवान् ॥ ४३ ॥ उत्तरं हरिवर्षे तु जिगीषुरथ फाल्गुनः । दिव्यैर्नरैः करं दत्त्वा बहुरत्नानि वारितः ॥ ४४ ॥ स शंभुनन्दनाभ्यासविलासस्तम्भविभ्रमम् । आरोपयज्जयस्तम्भमिह निर्दम्भविक्रमः ॥ ४९ ॥ इत्युत्तर हैंरिज्जैत्रः शंकरेणापि शङ्कितः । उत्ततार स कैलासशैलादैलविलाचितः ॥ ४६ ॥ इति उत्तरदिग्विजयः ॥ १. अयं श्लोकः ख- पुस्तके नास्ति. 'तत्र गर्ज' इत्यतः प्रागेव ग-पुस्तके. २. 'निवेशं न्य' ग. ३. 'मुदा' ख-ग. ४. 'तथ्यां' ख-ग. ५. 'काख्याञ्शिलो' ख; 'काख्यशिलो' ग. ६. 'हरिं जैत्रः' ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy