SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-२सर्गः] बालभारतम् । १३९ द्वितीयः सर्गः। शुद्धज्ञानसुधाम्भोधिधनं द्वैपायनं स्तुवे ।। योऽवर्षद्विश्वहर्षाय श्रीभारतसुधारसैः ॥ १ ॥ चतुरङ्गचमूचारभारभुग्नावनिर्व्यधात् । भीमानुजोऽथ कौबेरीदिग्जयाय प्रयाणकम् ॥ २ ॥ स्फाराहंफारहुंकारझंकारिनभसोऽलसन् । अमित्रश्रीसमाकृष्टिमान्त्रिका इव पत्तयः ॥ ३ ॥ मुखरा हयहेषाभिः पताकाहस्तशिक्षया । रथाः स्वरथिनां कीर्निर्तयन्त इवाचलन् ॥ ४ ॥ स्वगतिस्पर्धिनी छायामपि च्छादयितुं रुषा । पिधानाय रवेधूतधूलयो हरयोऽस्फुरन् ॥ ५ ॥ वलक्षाः कलुषीकर्तु द्विषत्कीर्तिपटीरिव । सत्रुर्मदमषीधारावर्षिणः करिणां गणाः ॥ ६ ॥ जयश्रीवल्लिबीजानां राजयो लाजमुष्टयः । जिष्णौ घनरसासिक्ते क्षिप्ताः पुरपुरंधिभिः ॥ ७ ॥ कुणिन्दविषयप्रत्तावासस्तदनु वासविः । अणारपौरुषो भूरीञ्जिगाय जगतीपतीन् ॥ ८ ॥ सुमण्डलादिभूमीन्द्रशौर्यनिद्रानिशागमः । सप्तद्वीपजयी जिष्णुर्ययौ प्राग्ज्योतिषं ततः ॥९॥ आलानितचमूनागमदस्यन्दकदम्बकैः । तत्रातिसुरभीचके कृष्णः कृष्णागुरुदुमान् ॥ १० ॥ वृतश्चीनैः किरातीधैः सागरानूपवासिभिः । तत्र शक्रसुहृदाजा भगदत्तो युधं व्यधात् ॥ ११ ॥ आरूढभगदत्तस्य सुप्रतीकस्य दन्तिनः । पपुः शिलीमुखाः पार्थकरोम्भोजत्यैजो मदम् ॥ १२ ॥ १. 'कुलिन्द' ग. २. 'जिष्णुः' क-ख. ३. किप्प्रत्ययान्तः. Aho! Shrutgyanam .
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy