SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८० काव्यमाला | कोऽप्येष कुंजकतरुर्घनसारधूपधूमोर्मिधूपिततनुर्धृतपुष्पमालाम् । गायन्मधुत्रतवधूमधुरा रवेण वश्यीकरोति कुतुकीव वसन्तलक्ष्मीम् ॥ ३१ ॥ श्रीमद्वसन्तऋतुराजविलासभूमि भ्रतिर्विभाति सहकारमहीरुहोऽयम् । स्थानप्रदायिषु षङ्गिषु कोकिलेय मत्र प्रपञ्चयति कंचन पञ्चमं यत् ॥ ३२ ॥ मत्तेषु पश्य दयितारसविह्वलेषु पारावतेषु कृतकौतुककूजितेषु । एषा वसन्तपरिरम्भभरेण रम्भा कामातुरेव मकरन्दरसं ददाति ॥ ३३ ॥ नव्यप्रसूनमिषतो नवमाधवीयं स्वेदोदबिन्दुनिवहानिव हासयन्ती । सङ्गे वैसन्तकमितुर्घनचञ्चरीक रोमाञ्चकञ्चुकितचारुतनुश्चकास्ति ॥ ३४ ॥ अद्याप्यजातकुचकल्पफला मिलन्त्यो मन्दानिलेन शिशुकेलिकलेन पश्य । कन्या इव स्फुरितनूतनपुष्पहासाः क्रीडां मिथो विदधते नवनालिकेर्यः ॥ ३५ ॥ खर्जूरिकाविशदरेणुकणावलीभिरश्मालीकृततनूः पटलीरलीनाम् । प्रध्वानिनीर्मदनपुष्पमयेषुपङ्कि कल्पाः कृताम्बरगतीः कति नानमन्ति ॥ ३६ ॥ व्यालोलमञ्ज रिभरः स्फुरितप्रसूनः कस्योत्सवं हृदि ददाति न सिन्दुवारः । १. कुब्जकः सेवतीभेदः, 'सेवती पुष्पसाहस्रात्कुब्जकं पुष्पमुत्तमम्' इति नरसिंहपुरा णम्. २ वसन्तकामुकस्य. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy