SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ७ सर्गः ] बालभारतम् । मञ्जीरमन्द्ररवमञ्जुमरालमालावाचालबालकमलकमया रयेण । कॢप्ते पदे मदवशेन वसन्तलक्ष्म्या किंकिल्लिवल्लिभिरलभ्यत पल्लवालिः ॥ २५ ॥ रक्तोत्पलप्रचितकुञ्चितकुञ्चिकाभै रुत्फुल्लकिंशुकलताकुसुमैरमीभिः । उद्धाट्य किंचिदपि मानमयं कपाटं कामो विवेश हृदि संप्रति दंपतीनाम् ॥ २६ ॥ सौभाग्यभाग्यमुररीकुरुते लतासु सर्वासु चम्पकलतैव नितान्तमेषा । यस्या वसन्तरमणः कुसुमच्छलेन भूषाभरं सुरभिभिः कुरुते सुवर्णैः ॥ २७ ॥ उत्फुल्लफुल्लमहसा हसति द्विरेफ नादेन गायति विघूर्णति मारुतेन । सद्यः प्रपद्य सुमुखीमुखमद्यमद्य धत्ते प्रमत्त इव कां बकुलो न लीलाम् ॥ २८ ॥ आलिङ्गितः कुरुबकाख्यत रुस्तरुण्या शक्रेमकुम्भकुचया सुरुचाभिसृत्य । इत्येष शेषधवलाभिरलाभि सद्यः सौभाग्यकीर्तिभिरिव प्रसवप्रभाभिः ॥ २९ ॥ कामाकुलः खलु कटाक्षघटाः क्षिपन्तीमात्मन्यवेक्ष्य रमणीं रमणीयतार्थी । अह्नाय मूर्ध्नि कुसुमानि नवानि बन न्प्रीतिं तनोति तिलकः किल कस्य नासौ ॥ ३०॥ ७९ १. 'कङ्केलिः' इति साधीयान्पाठः, 'कङ्केल्लिरशोकः' इति 'जस्स कारणादो उक्खfuse बन्धणं far कल्लिपल्लवं -' इत्यादिलवङ्गिकोक्तिव्याख्याने जगद्धरपण्डिताः. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy