SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] बालभारतम् । पुष्पायुधस्य नवकार्मुककाण्डभार वाहीककिंकर इव त्रिजगद्विजेतुः ॥ ३७॥ पश्य स्वभावमधुराणि मधूकगुल्मा गुञ्जन्मधुव्रतवधूनि मधूनि पीत्वा । उच्चैस्तरेषु कलितस्खलितः समीरो __ वात्येष मत्त इव हासितवल्लिपुष्पः ॥ ३८ ॥ किंकिल्लिपल्लवकरा स्मितपङ्कजास्या कर्णीयकोकिलरवा मधुरा मधुश्रीः । आभाति मञ्जुलकुचाश्रयचन्दनाक्त काश्मीरपत्ररचनायितपुष्पपङ्क्तिः ॥ ३९ ॥ आपत्य चम्पकधिया नवकर्णिकार पुष्पेषु गन्धरहितेष्वपि चञ्चरीकः । प्रीतो मधूनि रसयत्ययमन्यपुष्प सौरभ्यसंभृतनिजाननवासितानि ॥ ४० ॥ कौन्तेय पश्य वनसीमनि दूरकृष्ट कालायसासितशिलीमुखचक्रवालः । पान्थान्विकम्पयति केशव किङ्किरातः । कोऽप्यत्र निष्कृपमना ननु 'किङ्किरातः ॥ ४१ ॥ शुभ्रप्रभे करुणिकाकुसुमे विभाति __ श्यामोऽथवारुणरुचौ नवकाञ्चनारे । इत्थं स्मरन्निव मुहुर्महनीयतार्थी __भृङ्गीपतिः स्फुरति तत्र च तत्र चायम् ॥ ४२ ॥ एलावने कुरुबकस्तबके प्रियाले कैकोलके दमनके नवमालिकायाम् । १. अशोकः. 'कर्णावतंसीकृतकिङ्किरातैः' इत्युदारराघवम्. २. कामः. 'हेमालंकारभाभिर्भरनमितशिरःशेखरैः कैङ्किरातैः' इत्यत्र किङ्किरातस्य कामस्येमे कैङ्किराताः का. मिन इत्यर्थदर्शनात्. ३. 'कक्कोलके' इत्युचितम्. ११ Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy