SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ७ सर्गः ] बालभारतम् । दीर्घोऽपि दैर्घ्यमभजद्दिवसो बभार काय कृशापि च निशा प्रिययोगभाजाम् । प्रौढोऽप्यधत्त लघुतां स पुनर्गुरुत्वं क्षामापि सा समतनोद्विरहातुराणाम् ॥ १२ ॥ तापर्द्धिरुत्तरदिशि व्रजतो रराज राजीविनीयुवतिजीवितवल्लभस्य । काप्युत्कटा कवचितेव तदन्तराशा - वासित्रिलोचनविलोचनवह्निबाष्पैः ॥ १३ ॥ संतापिता इव खरैरविरश्मिभारै स्तारा विहाय गगनं तुहिनांशुवध्वः । स्वेदोदबिन्दु पटलीकपटेन कान्त भ्रान्त्येव चन्द्रवदनावदनानि भेजुः ॥ १४ ॥ उत्तेजयत्यनिशमेणदृशां मुखानि कामायुधाय मधुरेष यथा यथोच्चैः । स्पर्धावादिव महांसि तथा तथाय १ सूर्यस्य. मुद्योतयत्यनुदिनं मृगलाञ्छनोऽपि ॥ १५ ॥ पुंस्कोकिले किमपि गायति सार्वभौमराज्याभिषेकमिव संतनुते स्मरस्य । अश्रान्तकान्तरत कौतुक जातखेद - स्वेदोदविन्दुभिरिह प्रमदामुखेन्दुः ॥ १६ ॥ विश्वत्रयं विजयते मकरध्वजोऽयमस्त्रीकृतेन मम कोमलकूजितेन । एनं तथापि कुसुमास्त्रमुशन्ति लोकाः पुंस्कोकिलोऽरुणितदृष्टिरिति क्रुधेव ॥ १७ ॥ आपत्य विन्ध्यगिरिसीमनि मूच्छितोऽयमभ्रंकषाग्रशिखरस्खलनेन वायुः । Aho ! Shrutgyanam ७७
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy