SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३३ . प्रथम विमर्शः न चन्द्रे वासवासाढावयार्दाश्विद्विदैवतम् । सिद्धयै चित्रा च सप्तम्येकादश्यादित्रयं तथा॥४२॥ व्याख्या-अषाढात्रयं पूर्वाषाढोत्तराषाढाभिजितः, द्विदैवतं विशाखा ॥ भौमेऽश्विपौष्णाहिर्बुध्नमूलराधार्यमाग्निभम् । मृगः पुष्यस्तथाऽश्लेषा जया षष्ठी च सिद्धये ॥४३॥ व्याख्या-आहिर्बुध्नमुत्तरभद्रपदा, राधा विशाखा, अर्यमणमुत्तरफ़ल्गुनी, अग्निभं कृत्तिका । जया तिथिः ३-८-१३ रूपा, एवमग्रेऽपि तिथिसंज्ञायाम्॥ न भौमे चोत्तराषाढामघार्द्रावासवत्रयम् । प्रतिपदशमीरुद्रप्रमिता च मता तिथिः॥४४॥ बुधे मैत्रं श्रुतिज्येष्ठा पुष्यहस्ताग्निभत्रयम् । पूर्वाषाढार्यमः च तिथिर्भद्रा च भूतये ॥ ४५ ॥ व्याख्या-अत्रापि मैत्रमनुराधैव यशद्वेन पृथग्मृग उक्तः ॥ न बुधे वासवाश्लेषारेवतीत्रयवारुणम् । चित्रा मूलं तिथि-श्चेष्टा जयै३-८-१३के१न्द्र१४नवा९ङ्किता। ___ व्याख्या-इन्द्राङ्किता तिथिश्चतुर्दशी ॥ गुरौ पुष्याश्विनादित्यपूर्वाऽ ३ श्लेषाश्च वासवम् । पौष्णं स्वातित्रयं सिद्धयै पूर्णाः-१०-१५श्चैकादशी तथा॥४७ ___ब्याख्या--पूर्वास्तिस्रोऽपि । एवमग्रेऽपि ॥ . न गुरौ वारुणाग्नेयचतुष्कार्यमणद्वयम् । . ज्येष्ठा भूत्यै तथा भद्रा २-७-१२ तुर्या षष्ठ्यष्टमी तिथिः॥ व्याख्या-आग्नेयं कृत्तिका तच्चतुष्कं तत्र रोहिण्यादित्रयेणोत्पातादित्रयं कृत्तिकया तु यमघंटः, " गुरौ शतभिषजा यमघंटः " इति तु हर्षप्रकाशे ॥ १ पूर्वाषाढा Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy