SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - - : आरम्भ-सिद्धिः शुक्र पौष्णाश्विनाषाढा मैत्रं मार्ग श्रुतिद्वयम्। यौनादित्ये करो नन्दा१-६-११त्रयोदश्यौ च सिद्धये॥४९॥ व्याख्या-अषाढाशब्देन पूर्वोत्तराषाढे, मार्ग मृगशिरः, यौनं पूर्वफल्गुनी॥ न शुक्रे भूतये ब्रामपुष्यं सार्प मघाभिजित् । ज्येष्ठा च द्वित्रिसप्तम्यो रिक्ताख्या४-९-१४स्तिथयस्तथा।।५० व्याख्या-पुष्यास्त्रिभिः क्रमेणोत्पातादित्रयम् ॥ शनौ ब्राह्मश्रुतिद्वन्द्वाश्विमरुद्गुरुमित्रभम् । मघा शतभिषक् सिद्धयै रिक्ता४-९-१४ष्टम्यौ तिथी तथा।। व्याख्या-मरुद्रं स्वातिः, गुरुभं पुष्यः, मित्रभमनुराधा ॥ न शनौ रेवती सिद्धयै वैश्वमार्यमणत्रयम् । पूर्वा३मृगश्च पूर्णाख्या५-१०-१५तिथिः षष्ठी च सप्तमी॥५२ व्याख्या-वैश्वमुत्तराषाढा । एषु विशेषः-सुयोगश्लोकेष्वादौ न्यस्तैः"हस्त १ सौम्या २ श्विनी ३ मैत्र ४ पुष्य ५ पौष्ण ६ विरंचितैः । .. भवत्यमृतसिद्धयाख्यो योगः सूर्यादिवारगैः " ॥ १ ॥ अत्रामृतसिद्धयाख्य इति न मृता सिद्धिरमृतसिद्धिः । एष्ववश्यं कार्यसिद्धिरिति रत्नमालाभाष्ये । " भद्रासंवर्तकाद्यैश्चेत् सर्वदुष्टेऽपि वासरे । योगोऽस्त्यमृतसिद्ध्याख्यः सर्वदोषक्षयस्तदा ॥ १ ॥" इति हर्षप्रकाशे । “शुक्रस्य रेवत्या सह शत्रुयोग उत्तरभद्रपदाभिः साधं त्वमृतसिद्धियोगः ” इति लोकश्रीग्रन्थे । केऽप्याहु:-" शर ५ तिथितः सप्ततिथिष्वेते सप्तापि मृत्युदा क्रमशः " । तत्स्थापना रवि चन्द्र । मंगल, बुध । गुरु शुक्र शनि हस्त | मृगशिर अश्विनी अनुराधा पुष्य । रेवती रेवती | रोहिणी 13 पक्ष्य - Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy