SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्शः मकरस्थे सति न कश्चिद्दोषः, एकस्वामिकत्वात् । उक्तच"न वृश्चिकं हन्ति कुजोऽजवर्ती, वृषं न शुक्रोऽपि तुलाधरस्थः । तथैव कुंभ रविजो न हन्ति, मृगस्थितो वा तनुगं व्ययस्थः ॥ १ ॥ " तथाsनयैव युक्त्या मेषे तुलायां वा जन्मकग्ने सति जन्मराशौ वा सति ताभ्यामष्टमावपि वृश्चिकवृषौ लग्नत्वेन गृह्यमाणौ न दोषाय । तदुक्तं विवाहवृन्दावने " व्यलिवृषं जननर्क्षविलग्नयोर्भवनमष्टममभ्युदितं त्यजेत् " इति तथा - " जन्मराशिजन्मलग्नाभ्यां द्वादशमष्टमं च लग्नेशं त्यजेदित्यपि " रत्नमालाभाष्ये ॥ २२५ इन्दुक्रूरयुतं लग्नं तथा लग्नोदितांशकात् । अधिकांशग्रहं दूष्यगृहादर्वागपि त्यजेत् ॥ ३० ॥ व्याख्या- - इन्दुक्रूरेति, यल्लल्ल: " " सौम्यग्रहयुक्तमपि प्रायः शशिनं विवर्जयेल्लग्ने । क्रूर ग्रह न लग्ने कुर्यान्नवपञ्चमधने वा ॥ १ ॥ -" लग्नस्थे तपने व्यालो१ रसातलमुखः कुजे२ । , क्षयो मन्दे३ तमो राहौ४ केतावन्तकसंज्ञितः५ ॥ १ ॥ योगेष्वेषु कृतं कार्यं मृत्युदारिद्र्यशोकदम् । " इति दैवज्ञवल्लभे । लग्नोदितांशकादिति लग्ने उदिताः कथिताः कन्यादयो ये नवशास्तेऽपीन्दुकरयुता हेयाः कोऽर्थः ? यस्मिन् राशाविन्दुः क्रूर ग्रहो वा स्वात्तनामा लग्नेशस्य नवांशोऽपि त्याज्यः । यद्गदाधरः-" यस्मिन् राशौ भवेच्चन्द्रस्तमंशं परिवर्जयेत् । तस्माद्भवेश्च वैधन्यमावर्षान्मुनयो जगुः ॥ १ ॥ यस्मिन् राशौ भवेत् क्रूरस्तमंशं परिवर्तयेत् । लग्ने मृत्युं विजानीयात् पञ्चमेऽब्दे न संशयः ॥ १ ॥ " तथा अधिकांशग्रहमितिलग्नेऽधिकृत उदयप्राप्तो योंऽशऽस्तस्मतादधिकेष्यग्रेवंशेषु यो ग्रहस्तिष्ठति स भावरीत्याऽग्रेतनगृह एव स्थित उच्यते, तत्रस्थफलस्यैव दायकत्वात् । ततोऽनयापि रीत्या तेम ग्रहेणाधिष्ठीयमानं सत्तद्गृहं यदि दूषणीयतां प्राप्नोति तदाऽवस्थितमपि ग्रहं त्यजेत् तद्ग्रहेणाप्राप्तमपि तद्गृहं दूष्यते इत्यर्थः । आह च भास्करः – "लग्नोदितांशाम्यधिको ग्रहो यो, भावेऽग्रिमे भावफलेन स स्यात् । ग्रहो यदा भावफलेन याति, स्थाने निषिद्धे तमपीह जह्यात् ॥ १॥" Aho! Shrutgyanam तथा----
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy