SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः ५ ॥ सहजस्थो यदा जीवो मृत्युस्थाने यदा सितः ! निरन्तरं ग्रहा मध्ये राजा भवति निश्चितम् ॥ आदौ जीवः पञ्चमे वा दशमे चन्द्रमा भवेत् । राज्यवान स्यान्महाबुद्धिस्तपस्वी वा जितेन्द्रियः ॥ ६ ॥ स्वक्षेत्रस्था यदा जीवबुधसूर्यसुतास्तदा । जातकस्य सुदीर्घायुः सम्पदश्च पदे पदे ॥ ७ ॥ द्वितृतीये सुले धर्मे कर्मण्यपि यदा ग्रहाः । राजयोगं विजानीयात् जातस्तत्रोत्कटो भवेत् ॥ ८ ॥ धने व्यये यदा लग्ने सप्तमे भवने महाः । छत्रयोगस्तदा नीचकुलोऽपि नृपतिर्भवेत् ॥ ९ ॥ सिंहे जीवस्तथा शुक्रः कन्यायां मिथुने शनिः । स्वक्षेत्रे हिबुके भौमः स पुमान्नायको भवेत् ॥ १० ॥ कन्यायां शौरिचन्द्रौ च मृगे भौमो घटे तमः । सिंहे जीवो भवेजातो राजा शत्रुक्षयङ्करः ॥ ११ ॥ शुक्रा जीवो रविभौमो धने मकरकुम्भयोः । मीने च वत्सरे त्रिंशे जातः स्यात्सर्वकर्मकृत् ॥ १२ ॥ लग्ने सौरिस्तथा चन्द्रश्चाष्टमे भवने सित: । राजमान्यो महाकामी भोगपत्नीरतस्तथा ॥ १३ ॥ मिथुने च यदा राहु: सिंहस्थो भूमिनन्दनः । वृश्चिके च यदा जीवः स पुमान्नृपतिर्भवेत् ॥ १४ ॥ स्वगृहे च धने जीवः तुलायां च भवेत् सितः । शौरिर्मकरे मिथुने चन्द्रः स्याद्राजयोगकृत् ॥ १५ ॥ युग्मे शशी वृषे जीवः सिंहे शौरिर्मृगे कुजः । शुक्रस्तुलायां कन्यायां बुधार्कौ राज्ययोगदाः ॥ १६ ॥ धनेशुक्रश्च भौमश्च मीने जीवस्तुले बुधः । नीचश्चन्द्रो रवेर्युक्तो राजयोगोऽभिधीयते ॥ १७ ॥ मीने शुक्रो बुधश्वान्ते लग्ने सूर्यो धने शशी । सहजे च भवेौमो राजयोगं प्रचक्षते ॥ १८ ॥ भ्रातृस्थाने यदा जीवो लाभस्थाने शशी भवेत् । उच्छेषु वा शुभः केन्द्रे लग्ने वा जीव एककः ॥ १९ ॥ यद्वा-सिंहे जीवस्तुलाकीटधनुर्मकरकेषु च । ग्रहाः स्थाने तदा जातो देशभोगी भवेन्नरः ॥ २० ॥ Aho ! Shrutgyanam 392 ८८
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy