________________
. चतुर्थी विमर्शः
-
विद्यास्थाने यदा सौम्याः कर्मस्थाने च चन्द्रमाः । धर्मस्थाने पुनः सौम्यास्तदा राज्यं विधीयते ॥ २१ ॥ युग्मे वृषे मेषमीने कुम्भे च मकरे ग्रहाः। यद्वा शगुरुशुक्रन्दुराहवः स्युश्चतुष्टये ॥ २२ ॥ यद्वा तुर्य सितारेन्दुगुर्वर्कशनयः स्थिताः । • योगेष्वेतेषु ये जातास्तेषां स्याद्राजयोगिता ॥ २३ ॥ जन्मचतुर्थ भवने भार्गवरविराहुचन्द्रभौमेषु । जातो बुधयुक्तेषु च पृथिवीपालो भवेत् पुरुषः ॥ २४ ॥ जन्मचतुर्थ भवने भार्गवगुरुचन्द्रभौमशनियुक्तः ।। जातं विदधाति रविः प्रथवीपालं न संदेहः ॥ २५ ॥ धने व्ययेऽष्टमे षष्ठे सौम्यक्ररा युता यदि । यत्नात्स पुरुषो रक्षईश्वर: कुलवधेनः ॥ २६ ॥ तृतीये वैकादशे वा त्रिकोणे वा भवेंद्यदि । सप्तमें वा भवेजीव: सुरूपो राजमानिनः ॥ २७ ॥ गुरुलेग्ने धने करो व्यये करो भवेत् पुनः ।। सप्तमे भवने करो धनसौभाग्यजातकम् ॥ २८ ॥"
ते ग्रन्थान्तरोता एकत्रिंशद्राजयोगाः । तथा" यदि सर्वग्रहदृष्टिलग्ने परिपतति दैवतवशेन । तद्भवति नृपतियोगः कल्याणपरम्पराहेतुः ॥ २९ ॥ अन्योऽन्यस्योच्चराशिस्थौ यदि स्यातां ग्रहौ तदा । राजयोगं जिनोः प्राहुर्दर्शने तु महाफलम् ॥ ३० ॥ " एतौ पूर्णभद्रज्योतिषे । तथा" रविवर्ज द्वादशगैरनुफाश्चन्द्राद्वितीयगैः सुतुफाः । उभयस्थितैर्दुरधरा केमद्रुममन्यथैतेभ्यः ॥ ३१ ॥"
अन रविवर्जमिति रविवर्जा भौमादिग्रहा इत्यर्थः । ततोऽयं भाव:जन्मपत्रिकायां चन्द्राद्वादशे स्थाने भौमादिश्चेत्कश्चिद्ग्रहः स्यात्तदाऽनुफायोगः । चन्द्राद्वितीये स्थाने चेद्भौमादिः कश्चिद्ग्रहस्तदा सुतुफायोगः । उभयं चन्द्राद्वितीयद्वादशरूपं तयोयोरपि चेद्भौमादिः कश्चिद्ग्रहस्तदा दरधरायोगः । अन्यथेति यदि चन्द्राद्वादशद्वितीयस्थानयोभौंमादीनां मध्ये कश्चिद्ग्रहो नास्ति तदा केमद्रुमयोगः । " सूर्याद्वययगर्वोशि द्वितीयगैश्चन्द्रवर्जितैर्वेशि । उभयस्थैरुभयचरी राजयोगाः षडप्यमी ॥ ३२ ॥"
Aho! Shrutgyanam