SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चतुर्थी विमर्श "वृषोदये मूर्त्तिधनारिलाभगः, शशाङ्कजीवार्कसुतापरैर्नृपः । सुखे गुरौ खे शशितीक्ष्णदीधिती, यमोदये लाभगतैर्नृपोऽपरैः ॥ १६ ॥" वृषे लग्ने चन्द्रः मिथुने जीवः तुले शनि: मीनेऽकंकुजबुधशुक्राः इत्येको योगः १ | सुखे गुराविति शनिर्लने तुयें जीवः दशमेऽर्केन्दु एकादशे भौमबुधशुका:, इति द्वितीयः २ । सर्वे योगा एकादश ११ । पुनर्द्वावाहमेपूरणा १० य ११ तनु १ गाः शशिमन्दजीवा, ज्ञारों धने सितरवी हिदुके नरेन्द्रम् | 66 वक्रासितौ शशिसुरेज्यसितार्कसौम्या, होरा १ सुखा ४ स्त ७ शुभ ९ खा १० हि ११ गताः प्रजेशम् ॥ १७ ॥ "" दशमे चन्द्र एकादशे शनिः लग्ने जीवः द्वितीये बुधभौभौ तुर्ये शुक्रा इत्येको योगः १ | वासिताविति होरेति लग्नं शुभं धर्मभवनं आप्तिलभिः, ततोऽयमर्थः - भौमशनी लग्ने तुर्ये चन्द्रः सप्तमे जीवः नवमे शुक्रः दशमेऽर्कः एकादशे बुधः इति द्वितीय : २ । स ेऽप्येते द्वितीये भङ्गे राजयोगास्त्रयोदश १३ । अथ प्रासङ्गिकमाह 66 १७७ गुरुसितबुधल सप्तमस्थेऽर्कपुत्रे, वियति दिवसनाथे भोगिनां जन्म विद्यात् । शुभबलयुतकेन्द्रः क्रूरभस्थैश्च पापैर्व्रजति शबरदस्युस्वामितामर्थभाक च ॥ १८ ॥ ,, "" गुरुशुक्रबुधानामन्यतभो लग्ने, यद्वा गुर्वादीनां लग्नेषु सत्सु धन्विमीनवृषतुला मिथुनकन्यालग्नेष्वित्यर्थः । सक्षमे शनि: दशमेऽर्कः एवं योगे जाता भोगिनः स्युः । शुभेति शुभग्रहाणां राशयः सबलाः केन्द्रेषु क्रूरग्रहाः क्रूरराशिस्थाः एवं योगे जात: पुलिन्दानां चौराणां च स्वामी स्यात् धनी च । ॥ इति बृहजातके राजयोगाध्यायः ॥ अन्येऽपि राजयोगाः सन्ति, तथाहि- लग्ने शौरिस्तथा चन्द्रस्त्रिकोणे जीवभास्करौ ! कर्मस्थाने भवेद्वौमो राजयोगस्तदा भवेत् ॥ १ ॥ धने चन्द्रशनी मेषे जीवः खे राहुभार्गवी २ । अथवा दशमे जीवबुधशुक्रास्तथा शशी ३ ॥ २ ॥ अथवा दशमे शार्कौ भौमराह च पष्टौ । राजयोगेष्वेषु जाता राजानः स्युर्नरोत्तमाः ४ ॥ ३ ॥ आदौ जीवः सित: प्रान्ते यथा मध्ये निरन्तरम् । राजयोगं विजानीयाः कुटुम्वबलवर्धनम् ॥ ४ ॥ " विशिष्य च Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy