SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥४१॥ अन्सर्वती कथं नारी, नारीपापजायते । गोसनेम नौटा, कापि मम्भवती मम ॥१०४७॥ मण्डूकी मामु खते, केनेदं प्रतिपयते न शालितले मया तुटा, जाक्माना हि कोलकाः ॥ १०४८॥ शुक्रभक्षणमात्रेण, यद्यपत्यं प्रजायते । किं कृत्यं धवसनेम, तदापत्याय योषिताम् ? ॥ १०४९। स्तःस्पर्शनमात्रेण, जायन्ते यदि सूनवः। बीजसङ्गममात्रेण, दत्ते ससं तदा धरा ॥ १०५०॥ आमाते कमले गर्भः, शुक्राक्ते यदि जायते । भक्तमिश्रे तदा पात्रे, तृप्तिः केन निवार्यते ॥ १०५१ ॥ कथं विज्ञाय मण्डूकी, कन्यां धत्तेजिनीदले ? । भेकानामीशं ज्ञानं, कदा केनोपलभ्यते ॥ १०५२॥ रविधर्मानिलेन्द्राणां, भवेयुः सङ्गतः सुताः । कुन्त्याः सत्या विदग्धस्य, कस्येदं हदि तिष्ठति ॥ १०५३ ॥ देवानां यदि नारीभिः, सङ्गमो जायते सह । देवीभिः सह मानां, न तदा दृश्क्ते कथम् ? ॥ १०५४ ॥ सर्वाशुचिमये देहे, मानुषे कश्मले कथम् ? । निर्धातुविग्रहा देवा, रमन्ते मलवर्जिताः ॥ १०५५ ॥ अविचारणरम्याणि, परशास्त्राणि कोविदैः । यथा यथा विचार्यन्ते, विशीर्थन्ते तथा तथा ॥ १०५६ ॥ देवा(वाँ)स्तपोधनान् मुक्त्वा, कन्याः कुर्वन्ति योषितः । महाप्रभाषसंपन्ना, नेदं श्रद्दधते पुनः ॥ १०५७॥ वे पारदारिकीभूय, सेवन्ते फरयोषितः । प्रभाषो जायते तेषा, विटानां कथ्यते कथम् ? ॥ १.५८ ॥ किं मित्रासत्प्रलापेन, कृतेनानेन वच्मि ते । उत्पत्तिं कर्णराजस्व, जिनशासनशंसिताम् ॥ १०५९ ॥ ॥४१॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy