SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ धर्म 11 33 || खेटो जगाद भो विप्राः !, किं नैतद्वच इष्यते । एतादृशानि वाक्यानि, घनान्येव भवन्मते ॥ ८४० ॥ सूत्रकण्ठास्ततोऽवोचन्, यद्यसंभाव्यमीदृशम् । दृष्टं वेदे पुराणे वा, तदा भद्र! निगद्यताम् ॥ ८४१ ॥ सर्वथाऽस्माकमग्राह्यं पुराणं शास्त्रमीदृशम् । न न्यायनिपुणाः कापि न्यायहीनं हि गृहते ॥ ८४२ ॥ ऋषिरूपधरोऽवादीत्ततः खेचरनन्दनः । निवेदयामि जानामि, परं विप्रा ! विभेम्यहम् ॥ ८४३ ॥ स्ववृत्तेऽपि मयाऽऽख्याते, रुष्टा यूयमिति द्विजाः ! । किं न वेदपुराणार्थेऽकोषिष्यत पुनर्मम ? ॥ ८४४ ॥ सूत्र कण्ठैस्ततोऽभाषि, त्वं भाषस्वाविशङ्कितः । त्वद्वाक्यसदृशं शास्त्रं त्यक्षामो निश्चितं वयम् ॥। ८४५ ।। खेचरेण ततोऽवाचि, यूयं यदि विचारकाः । कथयामि तदा विप्राः ! श्रूयतामेकमानसैः ॥ ८४६ ॥ एकदा धर्मपुत्रेण, सभायामिति भाषितम् । आनेतुं कोऽत्र शक्नोति, फणिलोकं रसातलात् ॥ ८४७ ॥ अर्जुनेन ततोऽवाचि, गत्वाऽहं देव ! भूतलम् । सप्तभिर्मुनिभिः सार्धमानयामि फणीश्वरम् ॥। ८४८ ॥ ततो गाण्डीवमारोप्य, क्षोणी शांतमुखैः शरैः । भिन्ना निरन्तरैः क्षिप्रं, कामेनेव वियोगिनी ॥ ८४९ ॥ रसातलं ततो गत्वा दशकोटिबलान्वितः । आनीतो भुजगाधीशो, मुनिभिः सप्तभिः समम् ॥ ८५० ॥ अभाषिष्ट ततः खेटः, किं वो युष्माकमागमः । ईदृशोऽस्ति नवा ? ब्रूत, तेऽवोचन्नस्ति निश्चितम् ॥ ८५१ ॥ ततः खेटोsवदद्वाणविवरेणाप्यणीयसा । दशकोटिबलोपेतो, यथाऽऽयाति फणीश्वरः ।। ८५२ ॥ परीक्षा. ॥ ३३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy