SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पुरे सन्ति परत्रापि, साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंड्डा, ततो यातः पुरान्तरम् ॥ ८२७ ॥ मदासक्तमहीपीठो, गजः सम्मुखमागतः । प्रक्षरन्निर्भरः शैल, इव दृष्टो मया पुरे (रः) ॥ ८२८ ॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः । नियन्तृयन्त्रणोल्लङ्घी, समवर्त्तीव मूर्त्तिमान् ॥ ८२९ ॥ कमण्डलुं प्रविष्टोऽह - मपश्यन् शरणं परम् । अपारयन्नहं कर्त्तुमन्यत्राशु पलायनम् ॥ ८३० ॥ वेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः ॥ ८३१ ॥ पाटनासक्तचित्तं तं विलोक्याहं विनिर्गतः । कमण्डलूर्ध्ववक्त्रेण, जीवितोद्यमवान्न कः १ ॥ ८३२ ॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः ॥ ८३३ ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं गतः स्वस्थमनाः पुरे || ८३४ ॥ जिनेन्द्रमन्दिरं तत्र दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ ८३५ ॥ विहरन्नगरग्रामाऽऽकीर्णां भूमिमिहागतः । नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ ८३६ ॥ इदं सङ्क्षेपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ ८३७ ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? । हस्तिनः क्लिष्टपुच्छस्य, स्यातां तत्र कथं हि तौ ? ॥ ८३८ ॥ अनौ नीरं कर्ज जातु, शिलायां तिमिरं रवौ । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ ८३९ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy