SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ३१ ॥ 25% एकदाऽथ तया सार्धं, रन्त्वा स्वीकुर्वतः सतः । नष्टा त्रिशूलविद्या सा, सतीव परभर्तृतः ॥ ७८८ ॥ नाशे त्रिशूलविद्यायाः, स साधयितुमुद्यतः । ब्रह्माणीमपरां विद्यामतिमानपरायणः ।। ७८९ ॥ निधाय प्रतिमाम, तदीयां कुरुते जपम् । यावत्तावदसौ विद्या, विक्रियां कर्तुमुद्यता ॥ ७९० ॥ वादनं नर्त्तनं गानं, प्रारब्धं गगने तथा ( या ) । यावन्निरीक्षते तावद्ददर्श वनितोत्तमाम् ॥ ७९१ ॥ अधःकृत्य मुखं यावत्, प्रतिमां स निरीक्षते । तावत्तत्र नरं दिव्यं ददर्श चतुराननम् ॥ ७९२ ॥ वालेयकं शिरो मूर्ध्नि, वर्धमानमवेक्ष्य सः । चकर्त्त तरसा तस्य, शतपत्रमिवोर्जितम् ॥ ७९३ ॥ गलित्वा तत् स्थिरीभूय, न पपातास्य पाणितः । सुखसौभाग्यविध्वंसि, हृदयादिव पातकम् ॥ ७९४ ॥ व्यर्थीकृत्य गता विद्या, तं सा संहत्य विक्रियाम् । निरर्थके नरे नारी, न कापि व्यवतिष्ठते ॥ ७९५ ॥ वर्धमानं जिनं दृष्ट्वा, स्मशाने प्रतिमास्थितम् । रात्रावुपद्रवं चक्रे, स विद्यानरशङ्कितः ॥ ७९६ ॥ प्रभाते स जिनं ज्ञात्वा, पश्चात्तापकरालितः । पादावमर्शनं चक्रे, स्तावं स्तावं विषण्णधीः ॥ ७९७ ॥ जिनांहिस्पर्शमात्रेण, कपालं पाणितोऽपतत्। सद्यस्तस्य विनीतस्य, मानसादिव कल्मषम् ॥ ७९८ ॥ ईशः प्रक्रमः साधो !, खरमस्तककर्त्तने । अन्यथा कल्पितो लोकैर्मिध्यात्वतमसावृतैः ॥ ७९९ ॥ दर्शयाम्यधुना मित्र !, तवाश्चर्यकरं परम् । निगद्येति मुने रूपं स जग्राह खगात्मजः || ८०० ॥ परीक्षा. ॥ ३१ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy