SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥२८॥ ब्रमा मृगगणाकीर्णमविपद्गहनं वनम् । तीव्रकामाग्निसन्ततः, कन याति विचेतनः ॥७१०॥ . विलोक्यनुमतीमृक्षीं, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां, रासभ्यप्यप्सरायते ॥ ७११॥ आसाद्य तरसा गर्ने, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥७१२॥ यः कामातमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥७१३ ॥ अहल्यां चितभूभलिं, दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, विडोजाः पारदारिकः ॥७१४ ॥ गौतमेन क्रुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ ७१५॥ मुनेऽनुगृह्यतामेष, त्रिदशैरिति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥७१६॥ इत्थं कामेन मोहेन, मृत्युना यो न पीडितः। नासौ निषणो लोके, देवः कोऽपि विलोक्यते ॥ ७१७ । एक एव यमो देवः, सत्यशौचपरायणः। विपक्षमर्दको धीरः, समवर्तीह विद्यते ॥ ७१८ ॥ स्थापयित्वाऽस्य सांनिध्ये, कन्यां यात्रा करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥७१९॥ सस्त्रीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्मकृत्यैः(त्ये) प्रवर्तते ॥ ७२०॥ मनोभवतरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः ।। ७२१ ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनी कामी, क न स्थापयते कुधीः? ॥ ७२२ ॥ ला॥२८॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy