________________
अत्यासक्तदृशं दृष्ट्वा, साऽऽरुरोह नभस्तलम् । योषितो रक्तचित्तानां वञ्चमां कां न कुर्वते ॥ ६९७ ॥ पञ्चवर्षशतोत्थस्य, तपसो महसा स ताम् । दिदृक्षुरकरोद् व्योम्नि, रासभीयमसौ शिरः ॥ ६९८ ॥ न बभूव तपस्तस्य, न नृत्तं न विलोकनम् । अभूदुभयविध्वंसो, ब्रह्मणो रागसङ्गिनः ॥ ६९९ ॥ सा तं सर्व्वतपोरिक्तं, कृत्वाऽगात् सुरसुन्दरी । मोहयित्वाऽखिलं रामा, वञ्चयन्ति हि रागिणम् ॥ ७०० ॥ इमामनीक्षमाणोऽसौ, विलक्षत्वमुपागतः । दर्शनागतदेवेभ्यः, कुप्यति स्म निरस्तधीः ॥ ७०१ ॥ खरवक्रेण देवानां प्रावर्त्तत स खादने । विलक्षः सकलोऽन्येभ्यः, स्वभावेनैव कुप्यति ॥ ७०२ ॥ अवोचन्नमरा गत्वा, शम्भोरेतस्य चेष्टितम् । आत्मदुःखप्रतीकारे, यतते सकलो जनः ॥ ७०३ ॥ चकर्त्त मस्तकं तस्य, शम्भुरागत्य पञ्चमम् । परापकारिणो मूर्धा, छिद्यते कोऽत्र संशयः १ ॥ ७०४ ॥ त्वदीयहस्ततो नेदं, पतिष्यति शिरो मम । इति तं शप्तवानेष, ब्रह्महत्यापरं रुषा ॥ ७०५ ॥ कुरुष्वानुग्रहं साधो !, ब्रह्महत्याकृतो ममे । इत्येवं गदितो ब्रह्मा, तमूचे पार्वतीपतिम् ॥ ७०६ ॥ असृजा पुण्डरीकाक्षो, यदेदं पूरयिष्यति । हस्ततस्ते तदा शम्भो !, पतिष्यति शिरो मम ॥ ७०७ ॥ प्रतिपद्य वचस्तस्य, कपालप्रतमग्रहीत् । प्रपञ्चो भुवनव्यापी, देवानामपि दुस्त्यजः ॥ ७०८ ॥ ब्रह्महत्यांनिराशा (सा)य, सोऽगमद्धरिसंनिधिम् । पवित्रीकर्तुमात्मानं, न हि कं श्रवते जनः १ ॥ ७०९ ॥