SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ LEARCH अवादिपुस्ततो विप्रा!, भद्रास्माभिर्विचारकैः । द्विजितः शास्यते सद्यः, सौपणैरिव पन्नगः ॥ ५६७॥ अभाषिष्ट ततः खेटः, शङ्का चेतसि मे द्विजाः!। अद्यापि विद्यते कामं, खवाक्याग्रहशङ्किनः॥ ५६८॥ नासनं पेशलं यस्य, नोन्नता शरयत्रिकी। न नवः पुस्तकः श्रेष्ठो, न भन्यो योगपट्टकः ॥ ५६९॥ न पादुका युगं रम्यं, न वेषो लोकरञ्जकः । न तस्य जल्पतो लोकैः, प्रमाणीक्रियते वचः ॥ ५७० ॥ नादरं कुरुते कोऽपि, निर्वेषस्य जगत्रये । आडम्बराणि पूज्यन्ते, सर्वत्र न गुणा जनैः ॥ ५७१॥ विप्रास्ततो वदन्ति स्म, मा भैषीः प्रस्तुतं वद । चर्विते चर्वणं कर्तुं, युज्यते न महात्मनाम् ॥ ५७२ ।। मनोवेगस्ततोऽवादीद्यद्येवं द्विजपुङ्गवाः । पूर्वापरविचारं मे, कृत्वा खीक्रियतां वचः ॥ ५७३ ॥ इहास्ति पुण्डरीकाक्षो, देवो भुवनविश्रुतः । सृष्टिस्थितिविनाशानां, जगतः कारणं परम् ॥ ५७४ ॥ यस्य प्रसादतो लोका, लभन्ते पदमव्ययम् । व्योमेव व्यापको नित्यो, निर्मलो योऽक्षयः सदा ॥ ५७५॥ धनुःशङ्खगदाचक्रभूषिता यस्य पाणयः त्रिलोकसदनाधार-स्तम्भाः शत्रुविमईकाः ॥ ५७६ ॥ दानवा येन हन्यन्ते, लोकोपद्रवकारिणः । दुष्टा दिवाकरेणेव, तरसा तिमिरोत्कराः ॥ ५७७॥ लोकानन्दकरी हृद्या, श्रीः स्थिता यस्य विग्रहे । तापविच्छेदिका हृद्या, ज्योत्स्नेव हिमरोचिषः ॥ ५७८ ॥ कौस्तुभो भासते यस्य, शरीरे विषह (विविध)प्रभः । लक्ष्म्येव स्थापितो दीपो, मन्दिरे सुन्दरे निजे ॥५७९॥ .
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy