SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ हार, तन्दुले म बलभा । मामा मातुः काण्डेऽपि, तृतीये वासरे जातः, प्रबलो जाठरोऽनलः । सर्वाङ्गीणमहादाहः, क्षयकालानलोपमः ॥ ५४१ ॥ शयनाधस्तनो भागो, मयालोकि शनैस्ततः । बुभुक्षापीडितः कस्य, सम्मुखं न विलोकते ॥ ५४२॥ विशालं भाजनं तत्र, शालीयैस्तन्दुलै तम् । विलोकितं मया व्योम, शुद्धैश्चन्द्रकरैरिव ॥ ५४३ ॥ मयालोक्य गृहद्वारं, तन्दुलैः पूरितं मुखम् । उदरानलतप्तस्य, मर्यादा हि कुतस्तनी? ॥ ५४४ ॥ तस्मिन्नेव क्षणे तत्र, प्रविष्टा मम वल्लभा। त्रपमाणमनास्तस्याः, फुल्लगल्लाननः स्थितः ॥ ५४५ ॥ उत्फुल्लगलं मां वीक्ष्य, स्तब्धीकृतविलोचनम् । सा मातुः सूचयामास, शङ्कमाना महाव्यथाम् ॥ ५४६ ॥ श्वश्रूरागत्य मां दृष्ट्वा, सन्दिग्धा जीवितेऽजनि । प्रेम पश्यत्यकाण्डेऽपि, प्रियस्य विपदं पराम् ॥ ५४७ ॥ यथा यथा मम श्वश्रूर्गल्लो पीडयते शुचा । तथा तथा स्थितः कृत्वा, स्तब्धो विह्वलविग्रहः ॥ ५४८ ॥ रुदन्तीं मे प्रियां श्रुत्वा, सर्वा ग्रामीणयोषितः । मिलित्वाऽवादिषुाधीन् , योजयन्त्यः सहस्रशः ॥५४९॥ एका जगाद मातृणां, सपर्या न कृता यतः। ततोऽजनिष्ट दोषोऽयं, परमस्ति न कारणम् ॥ ५५॥ अभाणीदपरा दोषो, देवतानामयं स्फुटम् । आकस्मिकीदृशी पीडा, जायते परथा कथम् ? ॥ ५५१ ॥ इत्थं तासु बदन्तीपु, रामासु व्याकुलात्मसु । आगतः सा (सोऽ) वरो वैद्यो, भाषमाणः खवैद्यताम् ॥५५२॥ ....आहूय त्वरया कृत्वा, दोषोत्पत्ति निवेद्य ताम् । दास्थाहं दर्शितः श्वश्वा, वैद्यस्मातुरचित्तया ॥ ५५३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy