________________
सम्यक्त्वशुद्धिविषये
आराम नंदनकथा।
॥८॥
विदधुचौरा-ौर्य त्वत्पुण्यतः पुरे ॥२५६॥ ते बद्धा नगरारक्ष-रानीता उपभूमिपम् । नागरा अपि तान् दृष्ट्वा, नृपायेदं व्यजिझपन् ॥२५७।। एतैरेव हि राजेन्द्र , लुट्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यतेऽसीषां, गेहेवस्मद्धनादिकम् ॥२५८॥ तद्वेश्मभ्योऽथ सर्वस्व-मानाय्य न्यायवानृपः। यद्यस्य वस्तु तत्तस्या-दादा धर्मोऽयमेव हि ॥२५९ ॥ ततो लोभात्पुरारक्ष-धौरवेश्मानि शोधयन् । अवाप कञ्चुकं देवि !, गन्धप्रीणितनासिकम् ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रैषि प्रेमेव मृर्तिमत् ॥ २६१॥ अननःपुरपुरन्ध्रीणां, पश्यन्तीनामपि प्रियः । यन्मे प्रैषीतदित्येषा, स्वोत्कर्षान्न ममौ तनौ ॥२६२॥ तामादिक्षच हे हजे, तदानीय ममार्पय । परिधाय ययास्थाने, भर्तुरर्द्धासनं श्रये ॥२६३॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहार्षीत् , कञ्चुकं स खगेश्वरः ॥२६४॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोषयिष्यामि, करिष्ये च वशंवदाम् ॥ २६५ ॥ इति सञ्चिन्त्य विद्याभृ-द्गत्वा वेश्मनि कञ्चकम् । यावद्दित्सुरभूत्पत्न्यै, तावत्तस्यापरा प्रिया ॥ २६६ ।। ज्ञात्वा कञ्चुकमानीतं, दास्या व्यज्ञपयत्प्रियम् । प्रवक्ष्याभि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥२६७|| प्रियायाः प्रार्थनामेना, श्रुत्वा विद्याधराधिपः । भग्नपोत इवापप्तत् , द्वापरक्षारवारिधौ ॥२६८॥ परस्परं जिघृक्षू द्वे, सपल्यो पुष्पकञ्चकम् । वार्यमाणे प्रियेणान्यै-रपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं, कुर्वाणे तद्हेच्छया : विद्याधरः प्रिये दीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥ २७० ॥ दास्ये कञ्चुकमेकस्यै, तदाऽन्याऽसून् विमोक्ष्यति । अयश्च मत्कृतोऽनों, भावी दुर्यशसा सह ॥ २७१ ॥ तदहं क्वापि मुक्वैनं, यामीति कृतनिश्चयः ।
१ हजे इत्यव्ययं चेट्या आह्वाने, हण्डेहलेहलाः ॥२४८॥ इति अभिधानचिन्तामणिः २ चिन्ताचान्तः प्र.