SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 01-10110*6 www.kobatirth.org नात् च्युत्वा अवतीर्णः । "णं" शब्दो वाक्यालङ्कारे । यद्वा सप्तम्यर्थे इयं तृतीया । यो चा कालसमय ऋषपरिवाजको विद्यां परिवर्तयति, उत्थातुमारब्धो वैतालः, स दारको मीतो हृदि नमस्कारं परावर्तयति, स बैतालः पतितः, पुनरपि जपति, पुनरप्युत्थितः सुष्ठुतरं परिवर्तयति, पुनरपि पतितः, त्रिदण्डी भणति - किचित् जानीषे ?, भणति-च, पुनरपि जपति, तृतीयवारं, पुनरपि पृष्टः, पुनर्नमस्कारं करोति (परावर्तयति, तदा व्यन्तरेण रुष्टेन तं खनं गृहीत्वा स त्रिदण्डी द्विखण्डीकृतः, सुवर्णकोटिकः, (सुवर्णपुरुषः) जातः, अङ्गोपाङ्गानि च तस्य युक्तयुक्तानि ( पृथक् पृथक् ) कृत्वा सर्वरात्रौ व्यूढः ईश्वरो जातो नमस्कारफलेन, यदि नाभविष्यन्नमस्कारः, तदा वैतालेनामारिष्यत् स (च ) सौवर्णोऽभविष्यत् ॥ कामनिष्पत्तिः, -कथम् ?, एका श्राविका तस्या भर्ता मिथ्यादृष्टिरन्यां भार्या आनेतुं मार्गयति, तस्याः सम्बन्धेन न लभ्यते तस्याः सापन्यमिति, चिन्तयति - कथं मारयामि ?, अन्यदा कृष्णसर्पो घटे वाऽऽनीतः, संगोपितः, जिमितो भणति --आनय पुष्पाणि अमुकस्मिन् घटे स्थापितानि, सा प्रविष्टा, अन्धकारमिति नमस्कारं करोति ( गुणयति ), यद्यपि मां कोऽपि खादेत् तद्यपि मम म्रियमाणाया नमस्कारो न नक्ष्यतीति, हस्तः क्षिप्ता, सर्पों देवतयाऽपहृतः, पुष्पमाला कृता, सा गृहीता, दत्ता च तस्मै स संभ्रान्तञ्चिन्तयति - अन्यानि कथितं गतः पश्यति घटं पुष्पगन्धं च नैवात्र कोऽपि सर्पः, आवर्जितः पादपतितः सर्व कथयति क्षमयति च पश्चात्सैव गृहस्वामिनी जाता, एवं कामावहः ॥ आरोग्याभिरति :- एकं नगरं नद्यास्तीरे खरकर्मिकेण शरीरचिन्तायै निर्गतेन नद्यामुयमानं बीजपूरकं दृष्टं राज्ञ उपनीतं, सूदस्य हस्ते दत्तं जिमत उपनीतं प्रमाणेनातिरिक्तं वर्णेन गन्धेनातिरिक्तं तस्मै मनुष्याय तुष्टः, भोगो दत्तः, राजा भणति अनुनदि मार्गयत यावन्धं (भवति), पथ्यदनं गृहीत्वा पुरुषा गताः, दृष्टो वनखण्डः, यो गृहाति फलानि स म्रियते, राज्ञे कथितं भणति - अवश्यमानेतव्यानि, अक्षपतिताः ( अक्षपातनिकया ) प्रजन्तु, एवं गवा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir XCXCX******
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy