SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यालेशो यथा-"णमो अरि०” नमः अर्हद्भ्यः चतुःषष्टीन्द्रकृतां पूजां अर्हतीति अर्हतः, तेभ्यो मम *नमस्कारः अस्तु ॥१॥"नमो सि." नमः सिद्धेभ्यः अष्टकर्माणि क्षपयित्वा सिद्धि प्राप्ताः तेभ्यो मम नमस्कारोऽस्तु ॥२॥ "नमो आ०" नमः आचार्येभ्य: आचारेषु पञ्चसु ज्ञान १ दर्शन २ चारित्र ३ तपो ४ वीर्य ५ रूपेषु साधवस्त आचार्याः तेभ्यो मम नमस्कारः अस्तु ॥३॥ नमो उ०" नमः उपाध्यायेभ्यःद्वादशाङ्गानि सूत्रतोऽर्थतश्च ये पाठयन्ति ते उपाध्यायाः, तेभ्यो मम नमस्कारः अस्तु ॥४॥ “नमो लोए०" नमो लोके सर्वसाधुभ्यःज्ञानदर्शनचारित्रैः कृत्वा मोक्षमार्ग ये साधयन्ति ते साधवः, सर्वशब्देन ये जिनकल्पिकस्थविरकल्पिकादयः अर्धतृतीयद्वीपवर्तिनः तेभ्यः सर्वेभ्यः नमस्कारः अस्तु ॥५॥ अथ नमस्कारस्य फलमाह"एसो पंच०" एषः पञ्चपरमेष्टिनमस्कारः "सबपा." सर्वपापप्रणाशनः । “मंगला.” सर्वेषां मङ्गलानां प्रथम भवति मङ्गलम् ॥ अत्र नमस्कारे अष्टषष्टिः ६८ अक्षराणि, एकषष्टि, ६१ अक्षराणि लघूनि, सप्त च गुर्वक्षराणि नव पदानि, अष्टो च संपदः, (विश्रामस्थानानि) पुनः फलं नमस्कारस्य एकाक्षरं गुणितं सप्तसागरोपमपापानि गमयति, सम्पूर्णो नमस्कारः पञ्चशतसागरोपमपापानि गमयति । कथं ? अट्ठसट्टिसत्ता ४७६ सप्त गुर्वक्षराणां ४८३ नवनवपदानां ४९२ अष्ट सम्पदां जातानि ५००-सागरोपमाणि इति ॥ १ पुनरपि नमस्कारफलदृष्टान्ताः "इह लोअम्मि तिदंडी सा दिवं माउलिंगवणमेव । परलोए चंडपिंगलं-हुंडय-जक्यो य दिटुंता ।। १०१२॥" For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy