SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० १ ॥९॥ www.kobatirth.org अध्ययनं कल्पसूत्रनामकं उद्धृतमस्ति । तच मङ्गलभूतं महाकर्मक्षयकारकं विशेषशास्त्रं वर्तते । यदि धर्मशा लायामागम्यते तदा वाच्यते ।' राज्ञा च अङ्गीकृतम् । ततो राजादिस भासमक्षं नवभिर्वाचनाभिः सप्रभावनाभिः वाचितम्, ततः प्रभृति लोकसमक्षं कल्पसूत्रवाचनाप्रवृत्तिर्जाता । ततो गुरुपरम्परया अस्माभिरपि भवत्समीपे वाच्यते । तथा इदं श्रीकल्पसूत्रं अनन्तार्थविषयं यतः सर्वनदीनां ये वालुकाकणाः समुद्राणां च ये पानीयबिन्दवः तेभ्योऽपि एकस्य सूत्रस्य अर्थोऽनन्तगुणः, ततो मया मन्दमतिना कथं व्याख्यातुं शक्यते ? । तथापि यत्किमपि अर्थलवलेशमात्रं कथयन् अस्मि तत् मम माहात्म्यं नास्ति, किन्तु गुरोरेव ॥ तदृष्टान्तो यथा“यद्रेणुर्विकलीकरोति तरणिं तन्मारुतस्फूर्जितं, भेकचंबति यद्भुजंगबदनं तज्जुभितं मंत्रिणः || ” चैत्रे कृजति कोकिलः कलरवं यत्सा रसालद्रुम-स्फूर्तिर्जल्पति मादृशः किमपि यन्माहात्म्यमेतद्गुरोः ॥ १ ॥ रेणुः सूर्यमण्डलं स्पृशति तत् वायोर्माहात्म्यम्, न रेणोः ॥ १ ॥ दर्दुरः सर्पमुखं चुम्बति तत् गारुडिमामाहात्म्यम्, न दर्दुरस्य ॥ २ ॥ चैत्रमासे कोकिला मधुरं कूजति-तत् माहात्म्यम् आम्रमञ्जर्याः, न कोकिलायाः ॥ २ ॥ अथ मङ्गलार्थं श्रीपञ्चपरमेष्ठिनमस्कारो भण्यते णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सबसाहूणं, एसो पंचणमोकारो, सबपावप्पणासणो, मंगलाणं च सवेसिं पढमं हवइ मंगलं ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | चतुर्विधसहसम वाच्यता । 118 11
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy