SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ७ ॥ २०५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यते ? । तस्मादेव कारणात् मया खाद्यनाटकनेपथ्यकेलिलीलां विना मौनी सन् वनगहने श्रीऋषभदेवो भ्रामितः । ततो न अमुं इक्षुरसं स्वीकरोमि ।” इत्युक्ते दक्षिणहस्तेन वामहस्तः प्राह - "रे निर्लज्ज ! मा मुधा आत्मानं प्रशंससि [प्रशंसख ] । परैः प्रशंसितो निर्गुणोऽपि गुणवान्, स्वयंप्रोक्तगुणस्तु सगुणोऽपि लघुतां याति, गुणिनां गुणास्तु स्वयं प्रकटीभवन्ति कर्पूररत्नमण्यादीनामित्र, एकत्रवसतोः द्वयोरेको अपर| स्याग्रे गुणवर्णनं करोति तत् न युक्तं, मातुः अग्रे मातृकुलस्य वर्णनं यथा - अहो श्रेयांस ! श्रीऋषभदेवप्रपौत्र ! ममाऽपि कर्तव्यानि शृणु- "जिनेन यत् स्वीकृतं कन्याद्वयं तस्य मया स्थानं दत्तं, स्त्रीणां वामाङ्गशायित्वात् १, सङ्ग्रामे खेटकं अग्रे धृत्वा स्वामिनं अहं रक्षामि, खङ्गं उत्पाट्य दक्षिणपाणिः पश्चात् याति २, धनुः अग्रे धृत्वा अहं तिष्ठामि, अयं तीरं लात्वा कर्णे प्रविशति पिशुनवत् ३, अङ्कानां गणनव्यवहारो मयि ४, ग्रामचलने खरोऽपि मद्दिशि आगत्य ब्रवीति तदा सिद्धिदाता स्यात् । एवं देव्यादयोऽपि ५, एवं प्रथमप्रयाणे- प्रथमयामे रात्रौ शृगाला अपि मद्दिशिस्था एव सिद्धिदाः ६, रोगादौ विशेषतो वामे पार्श्वे शयनं समाधिदायकं ७, वामे सोमे [खरे] चन्द्रनाडीरूपे वहमाने कृतं कार्यं शुभकारि स्यात् ८, पुनः शृणु, अनेन परिणयनावसरे कन्याद्वयहस्तो गृहीतः, तदा नाऽहमाकारितः ९, कंसारोऽपि एकाकिना एव भक्षितो, न ज्ञातं मम सहचरोऽप्यस्ति, परमयं उदरम्भरिः १०, पुनः भोजनान्ते दक्षिणायाचकः ११, पुनः सृष्टान्नपान भोजने मम पार्श्वात् मक्षिका उड्डापयति, नाऽहं सुदाक्षिण्यात् नाकृतं कथयामि १२, पुनरेतस्य चातुर्यगुणोऽपि नास्ति, यतोऽयं मस्तके मुकुटं यथा तथा For Private and Personal Use Only श्रेयांस कुमारकृता भगवतः पारणा ॥२०५॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy