SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir fillim मेव केवलज्ञानोमयान, काया विवाद वेष्टयति, परं रचनया सुन्दरसंस्थानं अहं करोमि १३, पुनः अयं चौर्यकारी १४, चूतकारी १५, कियत् कथ्यते । आवयोः भव्याभव्यखरूपं सर्व जगत् वेत्ति, इत्थं आवयोः विवादं कुर्वतोः वर्ष एकं गतं । ततो भगवान् वार्षिकतपःकारी जातः। कुटुम्बविरोधो हि न श्रेयान, कथंचित् विरोधे जाते आत्मीया एव आत्मीयान् प्रतियोधयन्ति । पुनरपि श्रीभगवतः केवलज्ञानोत्पत्तौ तीर्थप्रवर्तने सङ्घस्थापनायां निर्वाणे च भवत एव कार्य महतां च खकीयं कार्य परार्थमेव । यतो मातृभिः पीतं दुग्धादि बालकाय स्यात् । तस्मात् विरोधं टालय ।" इत्युक्त्वा विरते वामहस्ते श्रेयांसः माह-"भो हस्तौ ! युवां द्वावपि स्वखकार्य भब्यौ । परं इमां मम प्रार्थना सफलां कुरुत । एकत्र मिलनं यथा वर्षक्षुधितस्य श्रीभगवतः पारणं स्यात्, मम च उत्तमदानेन संसारसमुद्रोत्तारणं स्यात् । ततः श्रेयांसाभ्यर्थनया द्वावपि हस्तौ चेडाकारौ मिलिती, श्रेयांसेन च शुद्धभावेन इक्षरसो विहरापितः, तच्छिखा च ऊर्ध्व निस्ससार । परं बिन्दुमात्रं नाऽधः पपात । एतत् कियत् ? । भगवतो लब्ध्या पाण्योर्घटसहस्र माति, समुद्रा वा सर्व मान्ति । श्रीभगवता च तत्रैव स्थाने पारणं कृतं । पञ्चदिव्यानि प्रकटितानि-गन्धोदकपुष्पवृष्टिः१ वसुधारावृष्टिः२ चेलोत्क्षेपः ३ देवदुन्दुभिः४ अहो दानमहो दानमिति उद्घष्टं ५ तद्दिनमपि वैशाखसुदितृतीयारूपं पर्वत्वेन मान्यं जातं । पारणास्थाने रत्नपीठं कारितं । कोऽपि पाह-"अरे! यदि मार्गितं स्यात् तदा एवं भवतु, ऋषभदेवसदृशं सुपात्रं १ इश्चरससमः शुद्ध आहारः २ श्रीश्रेयांससमो भावश्च ३।” इति श्रीभगवतः पारणाधिकारः ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy