SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तत्र स्थाने प्रकटीकृता, करकण्डनुपेण भक्त्या पूजिता, चैत्यमपि तत्र कारितं । तत्र स्थाने 'कलिकुण्डनाम तीर्थ जातं । स हस्ती मृत्वा तत्र चैत्ये व्यन्तरोऽधिष्ठायकोऽभूत् १॥ अथ एकदा राजपुरनगरस्वामी ईश्वरनामा राजा x अभूत्, तेन श्रीपार्श्वनाथं कायोत्सर्गस्थं दृष्ट्वा मूळ प्राप्ता, जातिस्मरणं ज्ञानं उत्पन्न । मश्रिणा पृष्टं खकीयं पूर्वभवं माह-"वसन्तपुरनगरे एकः कुष्टी प्रामणोऽभूत्, स च दुःस्वात् गङ्गाना मरणार्थ पतन चारणेन ऋषिणा रक्षितः प्रतियोधितश्च । एकदा स कुष्ठी चैत्ये गत्वा प्रत्यहं प्रणमन् पुष्कलिश्रावकेण दृष्टः। ततो मुनिपाधैं गत्वा पुष्कलिश्रावकेण पृष्टं-"एतस्य कुष्ठिनः चैत्यागमने दोषो न पा १।” मुनिना प्रोक्तं-"रात् जिनं प्रणमतो न कोऽपि दोषः। पुनरपि अयं कुष्ठी ब्राह्मण आगामिभवे राजपुरे नगरे ईश्वरनामा राजा भविष्यति । पुनरपि श्रीपार्श्वनाथं कायोत्सर्गस्थं दृष्ट्वा जातिस्मरणज्ञानं प्राप्स्यति । स कुष्ठी ब्राह्मणोऽहं जातः।” ततः ईश्वरनृपेण भक्त्या प्रभोः प्रसादः कारितः, मध्ये प्रतिमा च स्थापिता । ततः तत्र 'कुकुटेश्वरनाम तीर्थ प्रसिद्धं जातम्। अथ श्रीभगवतो मेघमालिदेवेन कृत उपसर्गों व्याख्यायते । अथ एकदा श्रीभगवान् विहरन् नगरपार्श्ववतिनं तापसाश्रमं समाजगाम । तस्मिन् प्रस्तावे सूर्यश्च अस्तं गतः । भगवान् वटवृक्षस्य अधस्तात् कूपस्य समीपे मेरुबत् निष्पकम्पः कायोत्सर्गे स्थितः, रात्री तदवसरे मेघमाली अधमदेवः पूर्ववैरं स्मरन कोपाकान्तो भगवन्तं उपसर्गयितुं समागतः । पूर्व तेन वेताला विकुर्विताः, ततः सिंहाः, ततो वृश्चिकाः, ततः सर्पाः, ततो For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy