SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता ध्या०६ भगवत उपसर्गसहन सग्गा उप्पजंति, तं जहा-दिवा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ १५८ ॥ "पासे णं अरहा" शब्दार्थः पूर्ववत्, संबन्धलापनिका तु इयं-श्रीपार्श्वनाथो दीक्षानन्तरं त्र्यशीतिदिनानि ८३ यावत् देहममतां मुक्त्वा, ये केचन देवसंवन्धिनो मनुष्यसंवन्धिनः तिर्यक्संवन्धिनो वा अनुकूलाः प्रति-1* कूला वा उपसर्गा उत्पन्नाः तान् उपसर्गान् सम्यक सहते । तत्र पूर्व दीक्षां गृहीत्वा विचरन , द्वितीये दिवसे श्रीभगवान् कोपकटनानि संनिवेशे धन्यस्य गृहिणो गृहे 'पायसेन' पारणं अकरोत्। देवैः बसुधारावृष्टिः कृता। अन्यदा स्वामी छद्मस्थः सन् विहरन् कादम्बर्या अटव्यां गतः। तत्र कलिगिरिपर्वतस्य अधस्तात् कुण्डनामसरोवरतीरे कायोत्सर्ग स्थितः। तत्र महीधरो नामा हस्ती पानीयपानार्थ समागतः, श्रीभगवन्तं दृष्ट्वा जातिस्मरणं ज्ञानं प्राप। खकीयपूर्वभवो दृष्टः। स पूर्वभव एवं-हेमलनामा कुलपुत्रको वामनः अभूवं, खजनैः हस्यमानः सुप्रतिष्ठनाना मित्रेण गुरुपाचे नीतः। तस्य पार्थे श्रावकधर्मो गृहीतः, परं अन्त्यावस्थायां स्वकीयं लघु देहं निन्दन् महादेहनिदानं कृत्वा मृत्वा अहं अत्र हस्ती महाकायो जातः' इति । ततो हस्तिना कमलैः भगवतः पूजा कृता । ततः तस्य हस्तिनो वृत्तान्तं ज्ञात्वा, चम्पावासी करकण्डूराजा तत्रागतः। परं करकण्डू: भगवन्तं अदृष्ट्वा प्रभूतं खेदं कृतवान् । ततः तस्य भत्तया इन्द्रेण नवहस्तप्रमाणा श्रीपार्श्वनाथप्रतिमा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy