SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पसूत्रं हस्तिनः परं भगवान् न क्षोभं प्राप्तः, मर्यादां समुद्र इव नाऽमुञ्चत् । ततो विशेषेण क्रुद्धः सन् चतुर्दिक्षु कल्पलता कालरात्रिसदृशान् मेघान् विकुर्वितवान् । ततो महावातान्, ततो विद्युज्झात्कारान् ततो गर्जारवान्, ततः व्या० ६ ० प्रलयकालवत् वर्षितुं लग्नो मुसलधाराभिः क्षणात् पानीयपूरो भगवतः कण्ठं यावत् समागतः, तथापि श्रीपार्श्वो नासिकाग्रे दत्तदृष्टिः मनागपि न चचाल । तस्मिन् प्रस्तावे कम्पितासनो धरणेन्द्रो पद्मावतीप्रमुखाभिः ॥ १६७ ॥ अग्रमहिषीभिः सार्धं समागत्य प्रणम्य च श्रीपार्श्वनाथं स्वकीयमस्तकोपरि कृत्वा प्रभोरुपरि फणान् विस्तारयामास । प्रभोर आकाशे पद्मावतीप्रमुखा अग्रमहिष्यो वेणुवीणादिवन्धुराणि गीतसृत्यानि चक्रुः । ततो धरणेन्द्रोऽवधिज्ञानेन मेघमालिनं वर्षन्तं ज्ञात्वा कुपितोऽब्रवीत् - "अरे । किमिदं त्वया आरब्धं १, रे दुर्मते ! अनन्तशक्तिरपि श्रीभगवान् कृपावान् सहिष्यते, परं अहं तद्भक्तो न सहिष्ये । रे पापिष्ठ 1 श्रीभगवतः सदुपदेशोऽपि तव वैराय जातः !, उषरपृथिव्यां मेघवर्षणं लवणाय यथा स्यात् ।। ततो मेघमाली भयभ्रान्तः प्रभोः शरणे प्रविष्टः । प्रभुं प्रणम्य खापराधं क्षामयित्वा 'नः पुनः करिष्यामि इत्युक्तवा च स्वस्थानं गतः । इन्द्रादयोऽपि स्वस्थानं जग्मुः । शिवापुर्वी इन्द्रो दिनत्रयं प्रभोः शीर्षे फणाछत्रं दधौ । ततः सा नगरी "अहिच्छत्रा" इति प्रसिद्धिं गता । अथ कीदृशस्य सतो भगवतः केवलज्ञानं समुत्पन्नं १, तत्राह - तएण से पासे भगवं अणगारे जाए ईरियासमिए भासासमिए जाव अप्पाणं भावेमाणस्स Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only मेघमालि कृत उपसर्गः, किवलज्ञानीत्पचित्र ॥१६७॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy