SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *मासदिनेषु प्रक्षेपे कृते मासा १४९ दिन ४५ दिनानां मासकरणे मासमध्ये प्रक्षेपे सर्वमास १५० दिन १५/ मासानां वर्षकरणे वर्षाणि द्वादश १२ मासाश्च षट् ६ दिनानि १५ एतावता द्वादशवर्षाणि १२ त्रयोदशपक्षाश्च १३ श्रीभगवतः छद्मस्थकालः । अत्राह शिष्यः-ननु द्वादशवर्षाणि त्रयोदशपक्षाश्च कथं मिलन्ति ? श्रीभगवता दीक्षा गृहीता मार्गशीर्षवदि दशमीदिने, केवलज्ञानं तु वैशाखसुदि दशमीदिने उत्पन्नं । एवं च || सति एकादशपक्षा एव वर्धन्ते न त्रयोदश, एतावता एको मासो हीयते । अत्रोच्यते-शृणु सावधानीभूय, सार्धद्वादशवर्षेः सार्धे द्वे युगे भवतः। अथ च युगे युगे मासद्वयं वर्धते, एवं सार्धे युगद्वये पञ्चमासा वर्धन्ते । अथ च प्रतिवर्ष षड्दिनानि हीयन्ते, एवं सार्धद्वादशवर्षेः पश्चसप्ततिर्दिनानि हीयन्ते । एतावता सार्धमासदयं हीयते । एकमासस्तु पक्षद्वयसंबन्धी पूर्वोक्तो हीयते, एवं सार्धमासत्रयं हीयते। तत् पञ्चमासेभ्यः पात्यते, इत्थं त्रयोदश पक्षा भवन्ति, परं सार्धमासः पञ्चमासमध्ये वर्धते । तत्राऽयं परमार्थः श्रीआचाराने उपधानश्रुताख्ये नवमे अध्ययने चतुर्थोद्देशके एवं श्रीभगवतस्तपः प्रोक्तं अस्ति, तथाहि-"छट्टेण एगया मुंजे अदुवा अट्टमेण दसमेणं, दुवालसमेण एगया भुंजे” इति । ततः सर्व मिलति । परं श्रीआवश्यकादौन छद्मस्थपर्यायः तपःसंकलनायां केनापि कारणेन आचाराङ्गोक्तषष्ठादितपःसंकलना न कृता, तत्परमार्थ ते एव जानन्ति । एवं सर्वतपसि श्रीभगवतो जघन्यं तपस्तु षष्ठं, न चतुर्थ, सर्वमपि तपो अपानकं सर्वछद्मस्थावस्थामध्ये प्रमादस्तु अन्तर्मुहर्तकालः । तथा भगवतो नन्दनभवसंबन्धि तपोऽप्येवं नन्दननृपेण २४ चतु मस्तु पक्षद्वय सार्घमास भगवतस्तपः सर्व मिलति कृता, तत्पर FIXOXXXaxoxoxaxakaxXOX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy