SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश BIPIDEMONOMURBedardi स्थाल्यां क्षीरान्नेन पारणं कारयसि तदा करोमि, नान्यथा. तदा राज्ञा तथैव कारितं, श्रेष्ठिनः पृष्टतश्चोष्ण- कर्णिका क्षीरान्नदग्धा त्वगुत्तीर्णा, श्रेष्टिना चिंतितं नूनमिदं मे पूर्वकृतकर्मण एव फलं मया लब्धं. ततः स श्रेष्ठी a जिनपूजां विधाय तुंगगिरिशिखरे मासं यावत्कायोत्सर्ग च विधाय शुभाराधनया मृत्वा सौधर्मेंद्रो जातः.स त्रिदंड्यपि मृत्वा तस्यैवेंद्रस्य वाहनमैरावणहस्ती वसृव. ततश्च्युत्वा स त्रिदंडजीवस्तिर्यग्योनिषु भ्रांस्वाऽज्ञा* नतपसा असिताक्षयक्षो जज्ञे. ततः स इंद्रोऽपि च्युत्वा हस्तिनागपुरे सनत्कुमाराभिधश्चक्री बभूव. एतच्च । तयोर्वैरकारणं जानीहि? ततस्ताभ्यां यक्षकुमाराभ्यां महायुद्धं कृतं. लब्धलक्षेण कुमारेण स यक्षो मुष्टिना हतस्ततो नष्टः, देवयोनित्वाच्च न मृतः. तदा विद्याधरैश्च तस्य कुमारस्योपरि पुष्पवृष्टिः कृता. अथ सन सनत्कुमारो यावदने चलति, तावत्तेन भानुवेगाभिधविद्याधरस्याष्टौ कन्या दृष्टाः, ततस्तेन भानुवेगविद्याधरेण ताः सर्वा अपि कन्या सनत्कुमाराय परिणायिताः. अथ विवाहानंतरमावद्धकंकण एव स यावत् किंचिज्जागरुकः सुप्तस्तावत्कचित्करुणस्वरं श्रुत्वा सोऽग्रे चलितः, इतस्तेन रत्नशृंगगिरावेकं भवनं दृष्टं, तत्रैकं दुष्टं विद्याधरं निर्जित्य करुणस्वरं रुदंती तां सुनंदाख्यस्त्रीरत्नं परिणीतवान्. एवं तत्र तं वज्रवेगवि. 1194dIHARIDHHATTI
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy