SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ १० ॥ 2004-05 Time बकुलमती प्राह श्रूयतां ? पूर्वं श्रीकांचनपुराभिधे नगरे विक्रमयशो नाम नृपः, तस्य च पंचशतराइय आसन्. तत्रैव नगरे च नागदत्ताख्यः श्रेष्ठी वसतिस्म, तस्य विष्णुश्रीनामभार्या अतीव रूपवत्यासीत्. अथान्यदा राजपाटिकायां व्रजता तेन नृपेण सा श्रेष्ठीपत्नी दृष्टा, कामातुरो व्यामोहितश्च स तां गृहीत्वा स्वप राज्ञ कार. अथान्यदा मात्सर्याच्छेषराज्ञीभिः कार्मणप्रयोगेण सा विष्णुश्रीर्व्यापादिता, तेन स राजातीव दुःखितो बभूव मोहेन च स तस्याः शरीरस्याग्निसंस्कारं कर्तुं न ददाति तदा प्रधानैर्मिलित्वा प्रच्छन्नं सा विष्णुश्रीर्वहित्यक्ता ततः स राजा जलान्नं त्यक्त्वा स्थितः प्रधानैश्च तृतीयदिवसे तं नृपं दुःखितं | दृष्ट्वा तस्मै तस्याः शवं दर्शितं. दुर्गंधयुतं तत्कलेवरं वीक्ष्य स राजा वैराग्येण चारित्रं गृहीत्वा तृतीयदेवलोके गतः ततश्च्युत्वा स रत्नपुरे जिनधर्मनामा वणिग्बभूव इतश्च स नागदत्तः प्रियाविरहातों मृत्वा सिंहपुरेऽग्निशर्माभिधो द्विजो जातः कियता कालेन च स विप्रो त्रिदंडवतं जग्राह तपः कुर्वाणश्च सोऽन्यदा राजगृहपुरे गतः, तत्र स नरवाहननृपेण पारणाय निमंत्रितः इतः स जिनधर्माभिधो वणिक् तत्रागतस्तेन त्रिदंडिना दृष्टः पूर्ववैरं स्मृत्वा तेन त्रिदंडिना राज्ञोऽग्रे प्रोक्तं, हे राजन् ! ययस्य श्रेष्टनः पृष्टस्थितताम्र EXE-EE कर्णिका ॥ १० ॥ Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy