SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ ९ ॥ PMI DID GENIK रमथ ममात्मीयं वृत्तांतं कथय ? कुमारेणोक्तं, भो मित्र ! आयातीयं वकुलमत्यभिधा मम विद्याधरीप्रिया, सा च प्रज्ञप्तिविद्या प्रभावाद्विज्ञाय मम सर्वमपि वृत्तांतं तवाग्रे कथयिष्यति इत्युक्त्वा सनत्कुमारस्तु सुप्तः. अथ सा वकुलमती प्राह, भो महेंद्रसिंह ! त्वं शृणु ? अथाश्वापहृतोऽयं कुमारो महाटव्यां पतितः, अथ द्वितीयेऽपि दिने स तुरंगमस्तु तथैव धावितुं लग्नः तृतीयदिने क्षुतडाकांतः स तुरंगमो मुखनिर्गतजिह्वो भूमौ पतितो मृतश्च अथ तुरंगमादुत्तीर्णः कुमारोऽपि जलाऽप्राप्त्या भ्रांताक्षोऽचेतनीभृय भ्रमो पतितः.. इतो वनस्थेनैकेन यक्षेण स जलैः सिक्तः सचेतनो जातः अथ लब्धचैतन्येन तेन कुमारेण तं यक्षप्रति पृष्टं भो यक्षराज ! एवंविधं शीतलं जलमल कुत्र वर्तते ? यक्षेणोक्तं भो कुमार ! एतज्जलं मानसाख्ये सरोवरे वर्तते तदा कुमारः प्राह चेदहं तत्र स्नानं करोमि, तदा मे शरीरसंतापोऽपयाति इति श्रुत्वा तेन यक्षेण स कुमारो मानससरोवरे नीतः तत्र च तेन स्नानं कृतं, अथ जलं पीत्वा यावत्स सरोवरपाल्यामुपविष्टस्तावत्पूर्वभव वैरिणाऽसितयक्षेण स दृष्टः तत्र च तेन यक्षेण सार्धं तस्य कुमारस्य युद्धं बभूव अत्रांतरे तेन महेंद्रसिंहेन सा बकुलमती पृष्टा, भो सुलोचने! तेन यक्षेण सह कुमारस्य वैरकारणं किं ? NEEEE कर्णिका ॥ ९ ॥ -N Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy