SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ યોગસાર २८3 २/६ मैत्री निखिलसत्त्वेषु, प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु, करुणा दुःखिदेहिषु ॥१०॥ २/७ धर्मकल्पद्रुमस्यैता, मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः, स तेषामतिदुर्लभः ॥११॥ २/८ अहो ! विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते, परे सन्तोऽपि नात्मनि ॥१२॥ २/११ यथाऽऽहतानि भाण्डानि, विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योऽन्यं, ही दोषग्रहणाद् हताः ॥१३॥ २/१२ परं पतन्तं पश्यन्ति, न तु स्वं मोहमोहिताः । कुर्वन्त: परदोषाणां, ग्रहणं भवकारणम् ॥१४॥ २/१३ यथा परस्य पश्यन्ति, दोषान् यद्यात्मनस्तथा । सैवाजरामरत्वाय, रससिद्धिस्तदा नृणाम् ॥१५॥ २/३२ अणुमात्रा अपि गुणा, दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला, अपि नैव कथञ्चन ॥१६॥ २/१४ रागद्वेषविनाभूतं, साम्यं तत्त्वं यदुच्यते । स्वशंसिनां क्व तत् तेषां, परदूषणदायिनाम् ? ॥१७॥ २/१५ मानेऽपमाने निन्दायां, स्तुतौ वा लोष्ठकाञ्चने । जीविते मरणे लाभालाभे रङ्के महद्धिके ॥१८॥ २/१६ शत्रौ मित्रे सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं, तत्त्वं तद् भेद्यतां परम् ॥१९॥ ३/२१ वृक्षस्य च्छेद्यमानस्य, भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च, भवेद् योगी समस्तथा ॥२०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy