SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ યોગસારાદિ સૂક્ત રત્ન - મંજૂષા २/१८ क्रियते दधिसाराय, दधिमन्थो यथा किल । तथैव साम्यसाराय, योगाभ्यासो यमादिकः ॥२१॥ २/१९ अद्य कल्येऽपि कैवल्यं, साम्येनानेन नान्यथा । प्रमादः क्षणमप्यत्र, ततः कर्तुं न साम्प्रतम् ॥२२॥ २/३८ साम्यं समस्तधर्माणां, सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा, चित्तं कुरुत निर्मलम् ॥२३॥ ३/१६ साम्यं मानसभावेषु, साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु, साम्यं सर्वत्र सर्वदा ॥२४॥ २/२८ तथा चिन्त्यं तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं, यथा निर्मलतां व्रजेत् ॥२५॥ २/३० सुकरं मलधारित्वं, सुकरं दुस्तपः तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् ॥२६॥ ३/२३ यथा गुडादिदानेन, यत्किञ्चित् त्याज्यते शिशुः । चलं चित्तं शुभध्यानेनाशुभं त्याज्यते तथा ॥२७॥ ३/१७ यदि त्वं साम्यसन्तुष्टो, विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्त्या किं ?, स्वमेवैकं समं कुरु ॥२८॥ ३/२६ तोषणीयो जगन्नाथः, तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः ? ॥२९॥ ३/२७ कषायविषयाक्रान्तो, बहिर्बुद्धिरयं जनः । किं तेन रुष्टतुष्टेन ?, तोषरोषौ च तत्र किम् ? ॥३०॥ ३/२८ असदाचारिणः प्रायो, लोकाः कालानुभावतः । द्वेषस्तेषु न कर्तव्यः, संविभाव्य भवस्थितिम् ॥३१॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy