SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २४४ २७ / १५ उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा । यस्य नास्ति जुगुप्सा च, क्रीडा चापि कदाचन ॥४४॥ २७ / १६ इदं शरीरमशुचि, शुक्रशोणितसम्भवम् । अशाश्वतं च मत्वा यः, शाश्वतार्थं प्रवर्तते ॥ ४५ ॥ २७/१७स भावभिक्षुर्भेतृत्वाद्, आगमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याशुभकर्मणः ॥ ४६ ॥ २७/२३ संवेगो विषयत्यागः, सुशीलानां च सङ्गतिः । ज्ञानदर्शनचारित्राराधना विनयस्तपः ॥४७॥ " દ્વાત્રિંશદ્ દ્વાત્રિંશિકા સૂક્ત - રત્ન - મંજૂષા 1 २७/२४ क्षान्तिर्मार्दवमृजुता, तितिक्षा मुक्त्यदीनते । आवश्यकविशुद्धिश्च, भिक्षोर्लिङ्गान्यकीर्त्तयन् ॥४८॥ २८ / १४इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । या शिरोमुण्डनव्यङ्ग्या, तां सद्दीक्षां प्रचक्षते ॥४९॥ २८ / १७ शरीरेणैव युध्यन्ते, दीक्षापरिणती बुधाः । दुर्लभं वैरिणं प्राप्य, व्यावृत्ता वाह्ययुद्धतः ॥५०॥ २८/१९ शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । तेषामेकाकिभावोऽपि, क्रोधादिनियतः स्मृतः ॥ ५१ ॥ २८/२१ ससङ्गप्रतिपत्तिर्हि, ममतावासनाऽत्मिका । असङ्गप्रतिपत्तिश्च, मुक्तिवाञ्छानुरोधिनी ॥ ५२ ॥ २८/२४ नारत्यानन्दयोरस्याम्, अवकाशः कदाचन । प्रचारो भानुमत्यभ्रे, न तमस्तारकत्विषोः ॥ ५३ ॥ २ / ७ गृहत्यागादिकं लिङ्ग, बाह्यं शुद्धि विना वृथा । न भेषजं विनाऽऽरोग्यं, वैद्यवेषेण रोगिणः ॥ ५४ ॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy