SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ દ્વાદિંશ દ્વાબિંશિકા સૂક્ત- રત્ન- મંજૂષા ૨૪૫ ३/९ दर्शयद्भिः कुलाचार-लोपादामुष्मिकं भयं ।। वारयद्भिः स्वगच्छीय-गृहिणः साधुसङ्गतिम् ॥५५॥ ३/१० द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् । विवेकविकलं दानम्, स्थापयद्भिर्यथा तथा ॥५६॥ ३/११ अपुष्टालम्बनोत्सिक्तैः, मुग्धमीनेषु मैनिकैः । इत्थं दोषादसंविग्नैः, हहा ! विश्वं विडम्बितम् ॥५७॥ ३/१२ अप्येष शिथिलोल्लापो, न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं, सूत्रे तद्गुणवर्णनात् ॥५८॥ ३/१५ समुदाये मनाग् दोष-भीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीताथैः, परेभ्यो नातिरिच्यते ॥५९॥ ३/१७ गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारम्, अन्धः पथि कथं व्रजेत् ? ॥६०॥ ३/१८ तत्त्यागेनाफलं तेषां, शुद्धोञ्छादिकमप्यहो ! । विपरीतफलं वा स्याद्, नौभङ्ग इव वारिधौ ॥६१॥ ३/१९ अभिन्नग्रन्थयः प्रायः, कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवाव्रता मूढा, ध्वांक्षज्ञातेन दर्शिताः ॥६२॥ ३/२१ ये तु स्वकर्मदोषेण, प्रमाद्यन्तोऽपि धार्मिकाः । संविग्नपाक्षिकास्तेऽपि, मार्गान्वाचयशालिनः ॥६३॥ ३/२२ शुद्धप्ररूपणैतेषां, मूलमुत्तरसम्पदः । सुसाधुग्लानिभैषज्य-प्रदानाभ्यर्चनादिकाः ॥६४॥ ३/२३ आत्मार्थं दीक्षणं तेषां, निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थाऽन्यदीक्षा च, स्वोपसम्पच्च नाहिता ॥६५॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy