SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ દ્વાદિંશદ્ દ્વામિંશિકા સૂક્ત- રત્ન - મંજૂષા २४३ १७/३० औचित्येन प्रवृत्त्या च, सुदृष्टिर्यत्नतोऽधिकात् । पल्योपमपृथक्त्वस्य, चारित्रं लभते व्ययात् ॥३३॥ १७/३१ मार्गानुसारिता श्रद्धा, प्राज्ञप्रज्ञापनारतिः । गुणरागश्च लिङ्गानि, शक्यारम्भोऽपि चास्य हि ॥३४॥ २८/३ यस्य क्रियासु सामर्थ्य, स्यात् सम्यग् गुरुरागतः । योग्यता तस्य दीक्षायाम्, अपि माषतुषाकृतेः ॥३५॥ २७/२ पृथिव्यादींश्च षटकायान्, सुखेच्छूनसुखद्विषः । गणयित्वाऽऽत्मतुल्यान्, यो महाव्रतरतो भवेत् ॥३६॥ २७/५ न यश्चागामिनेऽर्थाय, सन्निधत्तेऽशनादिकम् । साधर्मिकान् निमन्त्र्यैव, भुक्त्वा स्वाध्यायकृच्च यः ॥३७॥ २७/६ न कुप्यति कथायां यो, नाप्युच्चैः कलहायते । उचितेऽनादरो यस्य, नादरोऽनुचितेऽपि च ॥३८॥ २७/७ आक्रोशादीन् महात्मा यः, सहते ग्रामकण्टकान् । न बिभेति भयेभ्यश्च, स्मशाने प्रतिमास्थितः ॥३९॥ २७/८ आक्रुष्टो वा हतो वाऽपि, लूषितो वा क्षमासमः । व्युत्सृष्टत्यक्तदेहो यो-ऽनिदानश्चाकुतूहलः ॥४०॥ २७/९ यश्च निर्ममभावेन, काये दोषैरुपप्लुते । जानाति पुद्गलान्यस्य, न मे किञ्चिदुपप्लुतम् ॥४१॥ २७/१२ अज्ञातोञ्छं चरन् शुद्धं, अलोलोऽरसगृद्धिमान् । ऋद्धिसत्कारपूजाश्च, जीवितं यो न काङ्क्षति ॥४२॥ २७/१३ यो न कोपकरं ब्रूयात्, कुशीलं न वदेत् परम् । प्रत्येकं पुण्यपापज्ञो, जात्यादिमदवर्जितः ॥४३॥ जान
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy