SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ૨૨૨ १०/६ भूयांसो नामिनो बद्धा बाह्येनेच्छादिना हामी । आत्मानस्तद्वशात् कष्टं भवे तिष्ठन्ति दारुणे ॥३१ ॥ 1 १० / ७ एवं विज्ञाय तत्त्याग-विधिस्त्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञानसङ्गतं तत्त्वदर्शिनः ॥३२॥ ११/१ दुःखात्मकं तपः केचित् मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्, बलीवर्दादिदुःखवत् ॥३३॥ षोडशाहि सूडत - रत्न मंभूषा ११ / ५ मनइन्द्रिययोगानां अहानिचोदिता जिनैः । 7 यतोऽत्र तत् कथं त्वस्य युक्ता स्याद् दुःखरूपता ? ॥३४॥ ११ / ६ याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रिया समा साऽपि नेहसिद्धयाउन वाधनी ॥३५॥ ११/७ दृष्टा चेष्टार्थसंसिद्धी, कायपीडा ह्यदुःखदाः । रत्नादिवणिगादिनां तद्वदत्रापि भाव्यताम् ॥३६॥ " " ११ / ८ विशिष्टज्ञानसंवेग-‍ - शमसारमतस्तपः । क्षायोपशमिकं ज्ञेयं, अव्याबाधसुखात्मकम् ॥३७॥ ५/२ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥३८॥ 1 ५/३ वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥३९॥ ६/६ विभिन्नं देयमाश्रित्य स्वभोग्याद् यत्र वस्तुनि । सङ्कल्पनं क्रियाकाले, तद् दुष्टं विषयोऽनयोः ॥४०॥ ६/७ स्वोचिते तु यदारम्भे, तथासङ्कल्पनं क्वचित् । न दुष्टं शुभभावत्वात्, तच्छुद्धापरयोगवत् ॥४१॥ "
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy