SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ અષ્ટકપ્રકરણ/ ષોડશક ૨૨૩ २१/१ सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिभिर्नरैः । ___ अन्यथा धर्मबुद्धयैव, तद्विघातः प्रसज्यते ॥४२॥ २१/२ गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः ॥४३॥ २२/१ भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥४४॥ २२/४ न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि, तदनुत्कर्षसाधकम् ॥४५॥ २२/५ अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह सर्वसु कर्मसु ॥४६॥ २३/१ यः शासनस्य मालिन्ये-ऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वाद्, अन्येषां प्राणिनां ध्रुवम् ॥४७॥ २३/२ बध्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं, सर्वानर्थविवर्धनम् ॥४८॥ २३/३ यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥४९॥ २४/८ दया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥५०॥ ~~ हरिभद्रसूरिकृतं षोडशकप्रकरणम् ~~ १/१४ यद्भाषितं मुनीन्द्रैः, पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद्, भवगहने दारुणविपाकम् ॥५१॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy