SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૨૨૧ ८/१ अपेक्षा चाविधिश्चैवापरिणामस्तथैव च । प्रत्याख्यानस्य विघ्नास्तु, वीर्याभावस्तथाऽपरः ॥२०॥ ८/८ जिनोक्तमिति सद्भक्त्या, ग्रहणे द्रव्यतोऽप्यदः । बाध्यमानं भवेद् भाव-प्रत्याख्यानस्य कारणं ॥२१॥ ९/२ विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥२२॥ ९/३ निरपेक्षप्रवृत्त्यादि-लिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं, महाऽपायनिबन्धनम् ॥२३॥ ९/४ पातादिपरतन्त्रस्य, तद्दोषादावसंशयम् । अनर्थाद्याप्तियुक्तं, चात्मपरिणतिमन्मतम् ॥२४॥ ९/५ तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणहासोत्थं, प्रायो वैराग्यकारणम् ॥२५॥ ९/६ स्वस्थवृत्तेः प्रशान्तस्य, तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यक्, यथाशक्तिफलप्रदम् ॥२६॥ ९/७ न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत् प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ॥२७॥ २४/७ चित्तरलमसक्लिष्ट, आन्तरं धनमुच्यते । यस्य तन्मुषितं दोषैः, तस्य शिष्टा विपत्तयः ॥२८॥ १०/२ इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादावप्रवृत्त्यादिवर्जितम् ॥२९॥ १०/३ उद्वेगकृद्विषादाढ्यं, आत्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥३०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy