SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ જ્ઞાનસાર સૂક્ત- રત્ન - મંજૂષા ૧૯૭ ३१/१ ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः । तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् ॥१९॥ ३१/२ आनुश्रोतसिकी वृत्तिः, बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिः, ज्ञानिनां परमं तपः ॥१०॥ ३१/३ धनार्थिनां यथा नास्ति, शीततापादि दुःसहम् । तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि ॥१०१॥ ३१/४ सदुपायप्रवृत्तानां, उपेयमधुरत्वतः । ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ॥१०२॥ ३१/६ यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च, तत् तप: शुद्धमिष्यते ॥१०३॥ ३१/७ तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥१०४॥ उप./६ निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् ॥१०५॥ उप./९ क्लेशक्षयो हि मण्डुक-चूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥१०६॥ उप./१० ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् । __ युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति ॥१०७॥ उप./११ क्रियाशून्यं च यद् ज्ञानं, ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥१०८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy