SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા અધ્યાત્મસાર સૂક્ત - રત્ન - મંજૂષા यशोविजयकृतः अध्यात्मसारः १/१ ऐन्द्रश्रेणिनतः श्रीमान्, नन्दतान्नाभिनन्दनः । उद्दधार युगादौ यो, जगदज्ञानपङ्कतः ॥१॥ १/७ शास्त्रात् परिचितां सम्यक्, सम्प्रदायाच्च धीमताम् । इहानुभवयोगाच्च, प्रक्रियां कामपि ब्रुवे ॥२॥ १/१० अध्यात्मशास्त्रसम्भूत-सन्तोषसुखशालिनः । गणयन्ति न राजानं, न श्रीदं नापि वासवम् ॥३॥ १/१२ दम्भपर्वतदम्भोलिः, सौहार्दाम्बुधिचन्द्रमाः । अध्यात्मशास्त्रमुत्ताल-मोहजालवनानलः ॥४॥ १/१४ येषामध्यात्मशास्त्रार्थ-तत्त्वं परिणतं हृदि । कषायविषयावेश-क्लेशस्तेषां न कर्हिचित् ॥५॥ १/१५ निर्दयः कामचण्डालः, पण्डितानपि पीडयेत् । यदि नाध्यात्मशास्त्रार्थ-बोधयोधकृपा भवेत् ॥६॥ ८/१६ विषवल्लिसमां तृष्णां, वर्धमानां मनोवने । अध्यात्मशास्त्रदात्रेण, छिन्दन्ति परमर्षयः ॥७॥ १/१७ वने वेश्म, धनं दौःस्थ्ये, तेजो ध्वान्ते, जलं मरौ । दुरापमाप्यते धन्यैः, कलावध्यात्मवाङ्मयम् ॥८॥ १/१९ भुजाऽऽस्फालनहस्तास्य-विकाराभिनयाः परे । अध्यात्मशास्त्रविज्ञास्तु, वदन्त्यविकृतेक्षणाः ॥९॥ १/२१ रसो भोगावधिः कामे, सद्भक्ष्ये भोजनावधिः । अध्यात्मशास्त्रसेवायां, रसो निरवधिः पुनः ॥१०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy