SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ૧૯૬ જ્ઞાનસાર સૂક્ત - રત્ન - મંજૂષા २६/१ सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः ॥४८॥ २६/२ व्यापारः सर्वशास्त्राणां, दिक्प्रदर्शन एव हि । पारं तु प्रापयत्येको-ऽनुभवो भववारिधेः ॥८९॥ २६/४ ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्यात् तेषु निश्चयः ॥१०॥ २७/१ मोक्षण योजनाद् योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णाालम्बनैकाग्र्यगोचरः ॥११॥ २७/३ कृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छा-प्रवृत्तिस्थिरसिद्धयः ॥१२॥ २७/४ इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् ॥१३॥ २७/७ प्रीतिभक्तिवचोऽसङ्गैः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्तेः, मोक्षयोगः क्रमाद् भवेत् ॥१४॥ २७/८ स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥१५॥ २९/८ द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनां, अभेदोपासनात्मिका ॥१६॥ ३०/१ ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ॥१७॥ ३०/२ ध्याताऽन्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः । ध्यानं चैकाग्यसंवित्तिः, समापत्तिस्तदेकता ॥९८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy