________________ 1422 नैषधमहाकाव्यम् / आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः / लचितश्च भवता किमु न द्विर्वारिराशिरुदकाङ्कगलङ्कः / / 66 / / आज्ञयेति / हे विष्णो ! राम ! भवता त्वया, पितुः जनकस्य दशरथस्य, आज्ञया च वनं गच्छेत्येवंरूपेण आदेशेन च, अज्ञेभ्यः मूर्खभ्यः, मिथ्यापवादकरेभ्यः मूढेभ्यः सकाशादित्यर्थः / भिया च भयेन च, मही पृथिवी, प्रभवः उत्पत्तिस्थानं यस्याः सा तादृशी, श्रीः राज्यलक्ष्मीः, लदायाः अंशभूता पृथ्वीसुता सीता च, द्विः द्विवारम् अहीयत परित्यक्ता, पितुरादेशपालनाय वनगमनात् राजलचमीः परित्यक्ता, मूर्खजनापवादभयेन च सीता परित्यक्ता इत्यर्थः, .तथा उदकस्य जलस्य, अङ्कं समीपं, गच्छति या सा तादृशी, लङ्का तदाख्या पुरी यस्य सः तादृशः, वारिराशिः जलसमू. हात्मकः समुद्रः, अरिराशिर्वा रावणादिशत्रुसमूहश्च, वा-शब्दोऽत्र समुच्चये चार्थे, द्विः वारद्वयं, न लवितः न अतिक्रान्तः न जितश्च, किमु ? किम् ? 'अपि तु लडिन्तः एवेत्यर्थः, अत एव सत्यसन्धं जितेन्द्रियं महाप्रभावञ्च भवन्तं नमामीति भावः॥६९॥ पिताको आज्ञा तथा मूर्खलोगोंके अपवादके भयसे तुमने क्रमशः राजलक्ष्मी तथा पृथ्वी. पुत्री (सीता) का दोबार नहीं त्याग किया क्या ? ( तुम्हारे-जैसा पिताका आज्ञापालक एवं लोकापवाद भीरु दूसरा कोई नहीं है ) / और जिसके जल में लङ्का है, ऐसे समुद्र तथा जलमें लङ्का है जिसके ऐसे शत्रु-समूहको तुमने दो बार नहीं उल्लसित (गंधकर परतीरगमन पक्षा०-पराजित ) किया है क्या ? (समुद्रको बांधकर पार जानेवाला तथा रावणादि शत्रुसमूहको पराजित करनेवाला आप-जैसा महाप्रतापी एवं शूर कोई नहीं है ) // 69 // कामदेवविशिखैः खलु नेशं माऽर्पयजनकजामिति रक्षः / ___ दैवतादमरणे वरवाक्यं तथ्ययत् स्वमपुनाद्भवदः / / 70 / / कामेति / हे राम ! विष्णो ! जनकजां सीताम् , अर्पयत् ददत् , रामाय प्रत्यर्पयदित्यर्थः / रक्षोऽहमिति शेषः / कामदेवस्य देवतात्मकमन्मथस्य, विशिखैः बाणः, मा खलु नेशं नैव विनष्टं भवेयम् , तथात्वे ब्रह्मणो वरो मृषैव भवेदिति भावः / नशेः पुषादित्वादडि 'नशिमन्योरलिट्येत्वं वक्तव्यम्' इत्येत्वम् , 'न माङ् योगे' इत्यडभावः / इति एवम् , विचिन्त्य इति शेषः / देवतात् अमरात् , अमरणे मरणाभावे विषये, वरवाक्यं देवात् तव मृत्युन भविष्यति इति ब्रह्मा पुरा रावणाय यत् दरमदात् तद् वचनम् , तथ्ययत् तथ्यं सत्यं कुर्वत् सत् , रक्षः रावणः, भवतः तव, नरदेहधारिण इति भावः / अस्त्रैः बाणैः, स्वम् आत्मानम् , अपुनात् पूतवान् , तवास्त्रेण आत्मानं घातयित्वा पवित्रं जातमित्यर्थः / अपुनादित्यनेन कामबाणात् मरणे आस्मनः अपवित्रत्वं सूचितम् / कामबाणात् केवलं मरणमेव भवति, भवतः बाणात् तु पापनाशात् संसारमोक्षोऽपि भवतीति भावः // 70 // 'जनकनन्दिनी' (सीता) को (रामके लिए ) लौटाता हुआ मैं ( उसके विरहमें )