SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 366 सिद्धहैमबृहत्प्रक्रिया. क्रिया. तद्धित स्मिन् विषयेऽण् प्रत्ययः स्यात् / चूडा प्रयोजनमस्य चौडम् / चूला चौलम् / उपनयनमोपनयनम् / श्रद्धा श्राद्धम् / चूडादयः प्रयोगगम्याः / 1769 विशाखाषाढान्मन्थदण्डे // 6 / 4 / 120 // विशाखा आषाढा इत्येताभ्यां तदस्य प्रयोजनमित्यस्मिन् विषयेऽण प्रत्ययः स्यात् यथासंख्य मन्थे दण्डे चाभिधेये / मन्थो विलोडनं दण्डो वा / विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढा आषाढे आषाढाः प्रयोजनमस्य आषाढो दण्डः / 1770 उत्थापनादेरीयः // 64 / 21 // उत्थापन इत्येवमादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ईयः प्रत्ययः स्यात् / उत्थापनं प्रयोजनमस्योत्थापनीयः। उपस्थापनीयः। 1771 विशिरुहिपादिपरिसमापेरनात् सपूर्वपदात् // 6 // 4122 // विशिरुहिपदिपूरिसमापि इत्येतेभ्योऽनप्रत्ययान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः प्रत्ययः स्यात् / गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम् / संवेशनीयम् / अनुवेशनीयम् / अनुप्रवेशनीयम् / समावेशनीयम् / रुहि-प्रासादारोहणीयम् / आरोहणीयम् / प्ररोहणीयम् / अनुरोहणीयम् / अन्वारोहणीयम् / पदि-अश्वप्रपदनीयम् / गोपपदनीयम् / पूरि-प्रपापूरणीयम् / महापूरणीयम्। समापि-समापनीयम् / अङ्गसमापनीयम् / श्रुतस्कन्धसमापनीयम् / व्याकरणसमापनीयम् / 1772 स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ // 6 / 4 / 123 // स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च यथासंख्यं तदस्य प्रयोजनमित्यस्मिन् विषये यः प्रत्ययो लुप च स्याताम् / स्वर्गादिभ्यो यः-स्वर्गः प्रयोजनमस्य स्वयम् / यशस्यम् / आयुष्यम् / काम्यम् / धन्यम् / स्वस्तिवाचनादिभ्य इकणो लुप / स्वस्तिवाचन प्रयोजनमस्य स्वस्तिवाचनम् / शान्तिवाचनम् / पुण्याहवाचनम् / स्वर्गादयः स्वस्तिवाचनादयश्च प्रयोगगम्याः / गणद्वयोपादानाद्वचनभेदेऽपि यथासंख्यम् / 1773 समयात् प्राप्तः // 6 / 4 / 124 // सोऽस्येत्यनुवर्तते / समयशब्दात् प्रथमान्तादस्येति षष्ठयर्थे इकण प्रत्यय: स्यात् योऽसौ प्रथमान्तः प्राप्तश्चेत् स भवति / समयः प्राप्तोऽस्य सामयिक कार्यम् / उपनतकालमित्यर्थः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy